________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 99 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, पञ्चमोद्देशकः नियुक्तिः 126-127 वनस्पतिभेदाः ॥प्रथमाऽध्ययने पञ्चमोद्देशकः॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, तदनन्तरमविकलसुसाधुगुणप्रतिपत्तये क्रमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एष हि वायुरचाक्षुषत्वाद्दुःश्रद्धानः, अतः समधिगताशेषपृथिव्याघेकेन्द्रियप्राणिगणस्वरूपः। शिष्यः सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्या जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावत्प्रतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः, तत्र वनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारण नियुक्तिकृदाह नि०-पुढवीए जे दारा वणसइकाएऽवि हुंति ते चेव / नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥१२६॥ यानि पृथवीकापसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पतौ द्रष्टव्यानि, नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दाल्लक्षणे च द्रष्टव्यमिति // 126 // तत्रादौ प्ररूपणास्वरूपनिपिनायाह नि०- दुकिा वणस्सइजीवा सुहुमा तह बायरा य लोगंमि / सुहुमा य सवलोए दो चेव य बायरविहाणा // 127 // वनस्पतयो विधाः-सूक्ष्मा बादराश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुाह्याश्च न भवन्त्येकाकारा एव, बादराणां पुनर्द्व विधाने 127 // वेपुनस्ते बादरविधाने इत्यत आह // 99 //