SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 39 अग्निशस्त्रम् श्रीआचाराङ्गतदेवमग्निसमारम्भे सति न केवलमग्निजन्तूनां विनाश: किं त्वन्येषामपि पृथिवी- तृणपत्रकाष्ठगोमयकचवराश्रितानां नियुक्ति सम्पातिमानांच व्यापत्तिरवश्यम्भाविनीति, अत एव च भगवत्यां भगवतोक्तं- दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धिं अगणिकायं श्रीशीला० वृत्तियुतम् / समारंभंति, तत्थ णं एगे पुरिसे अगणिकायं समुज्जालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए? के पुरिसे अप्पकम्मयराए?, श्रुतस्कन्धः१ गोयमा! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए // तदेवं प्रभूतसत्त्वोपमईनकरमग्न्यारम्भं विज्ञाय // 98 // मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह___एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारंभमाणस्य इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी णेव सयं अगणिसत्थं समारंभे नेवऽण्णेहिं अगणिसत्थं समारंभावेजा अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि // सूत्रम् 39 // इति शस्त्रपरिज्ञाध्ययने चतुर्थोद्देशकः॥१-४॥ अत्र अग्निकाये शस्त्रं स्वकायपरकायभेदभिन्नं समारभभाणस्य व्यापारयत इत्येत आरम्भाः पचनपाचनादयो बन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथाऽत्रैवाग्निकाये शस्त्रमसमारभमाणस्यैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातकर्मेति ब्रवीमीति पूर्ववत् // 39 // इति शस्त्रपरिज्ञायां चतुर्थोद्देशकः समाप्तः / / द्वौ पुरुषौ सदृशवयसौ अन्योऽन्यं समकमग्निकार्य समारम्भयतः, तत्रैकः पुरुषोऽग्निकार्य समुज्वलयति, एको विध्यापयति, तत्र कः पुरुषो महाकर्मा कः पुरुषोऽल्पकर्मा?, गौतम! य उज्ज्वलयति स महाकर्मा यो विध्यापयति सोऽल्पकर्मा /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy