SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 97 // सूत्रम् 38 अग्निशस्त्रम् जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता इत्यर्थः, तदाश्रिता वा कृमिकुन्थुपिपीलिकागण्डूपदाहिमण्डूक- श्रुतस्कन्धः१ वृश्चिककर्कटकादयः, तथा वृक्षगुल्मलतावितानादयः, तथा तृणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिश्रिता घुणोद्देहि- प्रथममध्ययन शस्त्रपरिज्ञा, कापिपीलिकाऽण्डादयः, गोमयनिश्रिताः-कुन्थुपनकादयः, कचवर:-पत्रतृणधूलिसमुदायस्तनिश्रिताः कृमिकीटपतङ्गा चतुर्थोद्देशकः दयः / तथा सन्ति विद्यन्ते सम्पतितुमुत्प्लुत्योत्प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते सम्पातिनः प्राणिनो-जीवा मक्षिकाभ्रमरपतङ्गमशकपक्षिवातादयः, एते च सम्पातिनः आहत्यो पेत्य स्वत एव, यदिवा अत्यर्थं कदाचिद्वाऽग्निशिखायां सम्पतन्ति / च। तदेवं पृथिव्यादिनिश्रितानां जीवानां यद्भवति तदर्शयितुमाह-अगणिं चे त्यादि, रन्धनपचनतापनाद्यग्निगुणार्थिभिरवश्यमग्निसमारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति, छान्दसत्वात् तृतीयार्थे द्वितीया, ततश्चायमर्थः-अग्निना स्पृष्टाः छुप्ता एके केचन सङ्घातमधिकं गात्रसङ्कोचनं मयूरपिच्छवदापद्यन्ते, चशब्दस्याधिक्यार्थत्वात्, खलुशब्दोऽवधारणे, अग्नेरेवायं प्रतापोनापरस्येति, यदिवा सप्तम्यर्थे द्वितीया स्पृष्टशब्दश्च पतितवचनः, ततश्चायमर्थो भवति-अग्नावेव स्पृष्टाः-पतिता एके शलभादयः सङ्घातं समेकीभावेनाधिकं गात्रसङ्कोचनमापद्यन्ते / प्राप्नुवन्ति, ये च तत्र, अग्नौ पतिताःसङ्घातमापद्यन्ते ते प्राणिनः तत्र अग्नौ पर्यापद्यन्ते, पर्यापत्तिः-सम्मूर्छनम्, ऊष्माभिभूता मूर्छामापद्यन्त इत्यर्थः। अथ किमर्थं सूत्रकृता विभक्तिपरिणामोऽकारीति, उच्यते, मागधदेशीसमनुवृत्तेः व्याख्याविकल्पप्रदर्शनार्थं वा, अध्याहारादयोऽपिव्याख्याङ्गानीत्यनेन शिष्यो ज्ञापितो भवति / अथ के पुनस्तेऽध्याहारादय इति?, उच्यन्ते, // 97 // अध्याहारो विपरिणामो व्यवहितकल्पना गुणकल्पना लक्षणा वाक्यभेदश्चेति, इह च द्वितीयाविभक्तेः सप्तमीपरिणामः कृत। इति / ये च तत्र अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरनकुलादयस्तत्राग्नावपद्रावन्ति- प्राणान् मुञ्चन्तीत्यर्थः,
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy