SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 96 // पृथग विभिन्नाः शाक्यादयः पश्ये ति संयमानुष्ठाने स्थिरीकरणार्थं शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं | श्रुतस्कन्धः१ तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त इति दर्शयति- यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेणाग्निशस्त्रं समारभमाणः सन्नन्यान प्रथममध्ययन शस्त्रपरिज्ञा, नेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थं जाति चतुर्थोद्देशकः मरणमोचनार्थं दुःखप्रतिघातहेतुं यत्करोति तदर्शयति-सपरिवन्दनाद्यर्थी स्वत एवाग्निशस्त्रं समारभते तथा अन्यैश्चाग्निशस्त्रं सूत्रम् 38 समारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेः समारम्भणं से तस्य सुखलिप्सोरमुत्रान्यत्र चा अग्निशस्त्रम् हिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति, स इति यस्यैतदसदाचरणं प्रदर्शितम्, स तु शिष्यस्तदग्निसमारम्भणं पापायेत्येवं सम्बुध्यमान आदानीयं ग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽनगाराणां वा इहैकेषांक साधूनां ज्ञातं भवति,किं?, तद्दर्शयति- एष अग्निसमारम्भः ग्रन्थ:-कर्महेतुत्वाद्, एष एव मोहः, एष एव मारः, एष एव नरकस्तद्धेतुत्वादिति भावः, इत्येवमर्थं च गृद्धो लोको यत्करोति तदर्शयति- यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्रं समारभते तच्चारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्तीति // 37 // कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह से बेमि-संति पाणा पुढवीनिस्सिया तणणिस्सिया पत्तणिस्सिया कट्ठनिस्सिया गोमयणिस्सिया कयवरणिस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावलंति, जे तत्थ संघायमावखंति ते तत्थ परियावजंति जे तत्थ परियावजंति, ते तत्थ उद्दायति / / सूत्रम् 38 // तदहं ब्रवीमि यथा नानाविधजीवहिंसनमग्निकायसमारम्भेण भवतीति / यथाप्रतिज्ञातार्थं दर्शयति- सन्ति विद्यन्ते प्राणा // 96 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy