________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ || 95 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 36-37 अग्निशस्त्रम् यो हि प्रमत्तो भवति मद्यविषयादिप्रमादैरसंयतो गुणार्थी रन्धनपचनप्रकाशातापनाद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनोवाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनांदण्डहेतुत्वाद्दण्डः प्रकर्षणोच्यते प्रोच्यते, आयुघृतादिव्यपदेशवदिति // 35 // यतश्चैवं ततः किं कर्त्तव्यमित्यत आह तं परिण्णाय मेहावी इयाणिं णो जमहं पुव्वमकासी पमाएणं // सूत्रम् 36 // तमग्निकायसमारम्भं दण्डफलं परिज्ञाय- ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां मेधावी मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मन्याचिनोतीति / तमेव प्रकारं दर्शयितुमाह- इयाणी त्यादि, यमहमग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्तःकरणःसन् पूर्वमकार्ष तमिदानीं जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्व: नोकरोमीति ॥३६॥अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह__लज्जमाणा पुढो पास- अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति। तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारभइ अण्णेहिं वा अगणिसत्थं समारंभावेइ अण्णे वा अगणिसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अणगाराणं इहमेगेसिं णायं भवति- एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इचत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्म समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ / / सूत्रम् 37 // अस्य ग्रन्थस्योक्तार्थस्यायमर्थो लेशतः प्रदर्श्यते-लज्जमानाःस्वागमोक्तानुष्ठानं कुर्वाणा: सावधानुष्ठानेन वा लज्जां कुर्वाणाः // 95 //