________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 94 // श्रुतस्कन्ध: 1 प्रथममध्ययन शस्त्रपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 34-35 अग्निशस्त्रम् खेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसम्भव एवेत्येतद्गतप्रत्यागतफलमावि वितं भवति // 33 // कैः पुनरिदमेवमुपलब्धमित्यत आह-'वीरेही त्यादि, अथवा सद्वक्तृप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवतीत्यत उपदिश्यते वीरेहिं एवं अभिभूय दिटुं, संजएहिंसया जत्तेहिं सया अप्पमत्तेहिं / / सूत्रम् 34 / / घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराः- तीर्थकरास्तैवीरैरर्थतो दृष्टमेतद्गणधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टमशस्त्रं संयमस्वरूपं चेति / किं पुनरनुष्ठायेदं तैरुपलब्धं? इत्यत्रोच्यते, अभिभूये ति, अभिभवो नामादिचतुर्द्धा, द्रव्याभिभवो रिपुसेनादिपराजयः आदित्यतेजसा वा चन्द्रग्रहनक्षत्रादितेजोऽभिभवः, भावाभिभवस्तु परीषहोपसर्गानीकज्ञानदर्शनावरणमोहान्तरायकर्मनिईलनम्, परीषहोपसर्गादिसेनाविजयाद्विमलं चरणम्, चरणशुद्धर्ज्ञानावरणादि-8 कर्मक्षयः, तत्क्षयान्निरावरणमप्रतिहतमशेषज्ञेयग्राहि केवलज्ञानमुपजायते, इदमुक्तं भवति-परीषहोपसर्गज्ञानदर्शनावरणीययथाभूतैस्तैरिदमुपलब्धं तद्दर्शयति-संजएहिं सम्यग्यताः संयताः प्राणातिपातादिभ्यस्तैः, तथा सदा सर्वकालंचरणप्रतिपत्तौ मूलोत्तरगुणभेदायां निरतिचारत्वाद्यत्नवन्तस्तैः, तथा सदा सर्वकालं न विद्यते प्रमादो- मद्यविषयकषायविकथानिद्राख्यो। येषां तेऽप्रमत्तास्तैः, एवंभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रं अशस्त्रं च संयमो दृष्ट- उपलब्धमिति / अत्र च / यत्नग्रहणादीर्यासमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात्तु मद्यादिनिवृत्तिरिति / तदेवमेतत्प्रधानपुरुषप्रतिपादिमग्निशस्त्रमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति ॥३४॥एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्नियशस्त्रमुपभोगलोभात्प्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकं दर्शनायाह जे पमत्ते गुणट्ठीए से हु दंडेत्ति पवुच्चइ / / सूत्रम् 35 / / // 24 //