________________ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, चतुर्थोद्देशकः | सूत्रम् 33 अग्निशस्त्रम् श्रुतस्कन्ध:१8A . . श्रीआचाराङ्ग सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्तः एतावतो जीवान्नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार नियुक्ति- इति, तथा चोक्तं जायतेयं न इच्छन्ति, पावगं जलइत्तए। तिक्खमन्नयरं सत्थं, सब्वओऽवि दुरासयं ॥१॥पाईणं पडिणं वावि, उड्डे श्रीशीला वृत्तियुतम् अणुदिसामवि। अहे दाहिणओ वावि, दहे उत्तरओऽवि य॥२॥ भूयाणमेसमाघाओ, हव्ववाहो न संसओ, तं पईवपयावट्ठा, संजओ किंचि नारभे॥३॥(दशवै० अ०६ गा०३३-३५) अथवा बादरतेजस्कायाः पर्याप्तकाः स्तोकाः,शेषाः पृथिव्यादयो जीवकाया // 93 // बहवः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा इतरेषां पृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहस्रपरिमाणा दीर्घा अवसेया इति, अतो दीर्घलोकः-पृथिव्यादिस्तस्य शस्त्रं-अग्निकायस्तस्य क्षेत्रज्ञो निपुणोऽग्निकार्य वर्णादितो जानातीत्यर्थः,खेदज्ञो वा खेदः-तद्व्यापारः सर्वसत्त्वानांदहनात्मकः पाकाद्यनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशः यतीनामनारम्भणीयः, तमेवंविधं खेदं-अग्निव्यापार जानातीति खेदज्ञः, अतो य एव दीर्घलोकशस्त्रस्य खेदज्ञः स एव अशस्त्रस्य सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कञ्चिज्जीवं व्यापादयति अतोऽशस्त्रम्, एवमनेन संयमेन सर्वसत्त्वाभयप्रदायिनाऽनुष्ठीयमानेनाग्निजीवविषयः समारम्भः शक्यः परिहर्तुं पृथिव्यादिकायसमारम्भश्चेत्येवमसौ संयमे निपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाव्यावृत्य संयमानुष्ठाने प्रवर्त्तते / इदानींगतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनार्थं विपर्ययेण सूत्रावयवपरामर्श करोति-'जे असत्थस्से' त्यादि, यश्चाशस्त्रे-संयमे निपुणः स खलु दीर्घलोकशस्त्रस्य- अग्नेः क्षेत्रज्ञः खेदज्ञो वा, संयमपूर्वकं ह्यग्निविषयखेदज्ञत्वम्, अग्निविषय 0जाततेजसं नेच्छन्ति पावकं ज्वलयितुम् / तीक्ष्णमन्यतरत् शस्त्रं सर्वतोऽपि दुराश्रयम् // 1 // प्राचीनं प्रतीचीनं वापि ऊर्ध्वमनुदिक्ष्वपि / अधो दक्षिणतो वापि दहति उत्तरतोऽपि च // 2 // भूतानामेष आघातो हव्यवाहो न संशयः / तत् प्रदीपप्रतापार्थं संयतः किश्चिन्नारभेत / / 3 / /