________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् : // 92 // जे दीहलोगसत्थस्स खेयण्णे से असत्थस्स खेयण्णे जे असत्थस्स खेयण्णे से दीहलोगसत्थस्स खेयण्णे // सूत्रम् 33 // |श्रुतस्कन्धः१ य इति मुमुक्षुर्दीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेषैकेन्द्रियेभ्यो दीर्घो वर्त्तते, प्रथममध्ययनं शस्त्रपरिज्ञा, तथाहि-कायस्थित्या तावत् वणस्सइकाइए णं भंते? वणस्सइकाइएत्ति कालओ केवच्चिर होइ?, गोयमा! अणंतं कालं अणंताओ चतुर्थोद्देशकः उस्सप्पिणिअवसप्पिणिओ खेत्तओ अणंता लोया असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइभागे सूत्रम् 33 अग्निशस्त्रम् परिमाणतस्तु पडुप्पन्नवणस्सइकाइयाणं भंते! केवतिकालस्स निल्लेवणा सिया?, गोयमा! पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा तथा शरीरोच्छ्याच्च दीर्घो वनस्पति: वणस्सइकाइयाणं भंते! के महालिया सरीरोगाहणा पण्णत्ता?, गोयमा! साइरेगं जोयणसहस्स सरीरोगाहणा न तथाऽन्येषामेकेन्द्रियाणाम्, अतः स्थितमेतत्-सर्वथा दीर्घलोको वनस्पतिरिति, अस्य च शस्त्रमग्निः, यस्मात्स। हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छस्त्रम्, ननु च सर्वलोकप्रसिद्ध्या कस्मादग्निरेव नोक्तः?, किं वा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादयमुत्पाद्यमानो ज्वाल्यमानो वा हव्यवाहः समस्तभूतग्रामघाताय प्रवर्त्तते, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतो वनस्पतौ कृमिपिपीलिकाभ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात् आपोऽप्यवश्यायरूपाः, वायुरपीषच्चञ्चलस्वभावकोमलकिशलयानुसारी 0वनस्पतिकायो भदन्त! वनस्पतिकाय इति कालतः कियच्चिरं भवति?, गौतम! अनन्तं कालम्, अनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रतोऽनन्ता लोकाः, असंख्येयाः // 92 / / पुद्गलपरावर्ताः, ते पुद्गलपरावर्ता आवलिकाया असङ्ख्येये भागे। 0 प्रत्युत्पन्नवनस्पतिकायिकानां भदन्त! कियता कालेन निर्लेपना स्यात्?, गौतम! प्रत्युत्पन्नवनस्पतिकायिकानां नास्ति निर्लेपना / 0 वनस्पतिकायिकानां भदन्त! का महती शरीरावगाहना प्रज्ञप्ता?, गौतम! सातिरेकं योजनसहस्रं शरीरावगाहना।