________________ | श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 91 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, चतुर्थोद्देशकः सूत्रम् 32 अग्निशस्त्रम् से बेमि णेव सयं लोगं अब्भाइक्खेज्जा व अत्ताणं अब्भाइक्खेजा, जे लोयं अब्भाइक्खड़ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खड़ से लोयं अब्भाइक्खइ / / सूत्रम् 32 // अस्य च सम्बन्धः प्राग्वद्वाच्य इति, येन मया सामान्यात्मपदार्थपृथिव्यप्कायजीवप्रविभागव्यावर्णनमकारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्तेजोजीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीमि, किं पुनस्तदिति दर्शयति-नैवेत्यादि, इह हि प्रकरणसम्बन्धाल्लोकशब्देनाग्निकायलोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव स्वय मात्मनाऽभ्याचक्षीत-8 नैवानपह्ववीतेत्यर्थः, एतदभ्याख्याने ह्यात्मनोऽपि ज्ञानादिगुणकलापानुमितस्याभ्याख्यानमवाप्नोति, अथ च प्रा। प्रसाधितत्वादभ्याख्यानं नैवात्मनो न्याय्यम्, एवं तेजस्कायस्यापि प्रसाधितत्वादभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति, एवं चास्य युक्त्यागमबलप्रसिद्धस्याभ्याख्याने क्रियामाणे सत्यात्मनोऽप्यहंप्रत्ययसिद्धस्याभ्याख्यानं भवतः प्राप्तम् / एवमस्त्विति चेत्, तन्नेति दर्शयति- नेव अत्ताणं अब्भाइक्खेज्जा नैवात्मानं-शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेनाहृतमिदं शरीरं केनचिदभिसन्धिमता, तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात्, न च प्रसाधितप्रसाधनं पिष्टपेषणवद्विद्वज्जनमनांसि रञ्जयति, एवं च सत्यात्मवत्प्रसाधितमग्निलोकं यः प्रत्याचक्षीत सोऽतिसाहसिक आत्मानमभ्याख्याति-निराकरोति, यश्चात्माभ्याख्यानप्रवृत्तःस सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणाम्, सति ह्यात्मसामान्ये पृथिव्याद्यात्मविभागः सिद्ध्यति, नान्यथा, सामान्यस्य विशेषव्यापकत्वात् व्यापकविनिवृत्तौ च व्याप्यस्याप्यवश्यंभाविनी विनिवृत्तिरितिकृत्वा / एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम्, अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह