SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 89 // हेतुगणान्वितत्वात्, सास्नाविषाणादिसङ्घातवत्, तथात्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, श्रुतस्कन्धः१ खद्योतकदेहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्मवत्, न चादित्यादिभिर-- प्रथममध्ययन शस्त्रपरिज्ञा, नेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभावत्वं तस्मानानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन चतुर्थोद्देशकः वृद्धिविशेषतद्विकारवत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति // 119 // उक्तं लक्षणद्वारम्, तद- नियुक्तिः नन्तरं परिमाणद्वारमाह 120-122 तेजसो नि०-जे बायरपज्जत्ता पलिअस्स असंखभागमित्ता उ / सेसा तिण्णिवि रासी वीसुलोगा असंखिज्जा // 120 // दारं / / द्वाराणि ये बादरपर्याप्तानलजीवाःक्षेत्रपल्योपमासङ्ख्येयभागमात्रवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्खयेयगुणहीनाः,शेषास्त्रयोऽपि राशयः पृथ्वीकायवद्भावनायाः, किंतु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति // 120 / / साम्प्रतमुपभोगद्वारमाह नि०- दहणे पयावणे पगासणे य भत्तकरणे सेये य / बायरतेउक्काए उवभोगगुणा मणुस्साणं / / 121 // दहनं- शरीराद्यवयवस्य वाताद्यपनयनार्थं प्रकृष्टं तापनं प्रतापनं-शीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिना भक्तकरणं- ओदनादिरन्धनं स्वेदो-ज्वरविसूचिकादीनाम्, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति / / 121 // तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो. यत्याभासा वा सुखैषिणस्तेजस्कायजन्तून् हिंसन्तीति दर्शयितुमाह // 89 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy