SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज़ा, चतुर्थोद्देशकः नियुक्तिः // 88 // तेजसो द्वाराणि श्रीआचाराङ्ग स्वयम्भूरमणपर्यन्तायते उधिोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निषूत्पद्यमानकास्तव्यपदेशं लभन्ते, तथा तिरियनियुक्ति लोयतट्टे (हे) यत्ति तिर्यग्लोकस्थालकेच व्यवस्थितो बादराग्निषूत्पद्यमानो बादराग्निव्यपदेशभाग्भवति / अन्ये तु व्याचक्षतेश्रीशीला० वृत्तियुतम् तयोस्तिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोकतत्स्थः, तत्र च स्थित उत्पित्सुर्बादराग्निव्यपदेशमासादयति, अस्मिंश्च व्याख्याने कपाटान्तर्गत एव गृह्यते, स च द्वयोरूर्द्धकपाटयोरित्यनेनैवोपात्त इति तद्व्याख्यानाभिप्रायं न विद्मः। कपाटस्थापना चेयम् / समुद्धातेन सर्वलोकवर्तिनः, ते च पृथिव्यादयो मारणान्तिकसमुद्धातेन समवहता बादराग्निषूत्पद्यमानास्तव्यपदेशभाजः सर्वलोकव्यापिनो भवन्ति, यत्र च बादराः पर्याप्तकास्तत्रैव बादरा अपर्याप्तकाः, तन्निश्रया तेषामुत्पद्यमानत्वात्, तदेवं सूक्ष्मा बादराश्च पर्याप्तकापर्याप्तकभेदेन प्रत्येकं द्विधा भवन्ति, एते च वर्णगन्धरसस्पर्शादेशैः / सहस्राग्रशो भिद्यमानाः सङ्खयेययोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृत्ता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति // 118 // साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाह नि०-जह देहप्परिणामो रत्तिं खज्जोयगस्स सा उवमा। जरियस्स व जा उम्हा एसुवमा तेउजीवाणं // 119 // दारं // / यथे ति दृष्टान्तोपन्यासार्थः देहपरिणामः प्रतिविशिष्टा शरीरशक्तिः रात्रा विति विशिष्टकालनिर्देशः खद्योतक इति प्राणिविशेषपरिग्रहः, यथा तस्यासौ देहपरिणामो जीवप्रयोगनिर्वृत्तशक्तिराविश्वकास्ति, एवमङ्गारादीनामपि प्रतिविशिष्टा प्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति / यथा वा- ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, जीवाधिष्ठितशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनाम्, न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता, सम्प्रति प्रयोगमारोप्यतेऽयमेवार्थ:-जीवशरीराण्यगारादयः, छेद्यत्वादि
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy