________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 83 // सूत्रम् 27 अनगारस्वरूपम् पवेदितं 'पृथग्'विभिन्नमुत्सेचनादिकं शस्त्रं प्रवेदित'माख्यातं भगवता, पाठान्तरं वा पुढोऽपासं पवेदितं एवं पृथग्विभिन्न- श्रुतस्कन्धः१ लक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं प्रवेदितं- आख्यातं भगवता, अपाशोबन्धनं शस्त्रपरिणामितोदकग्रहणम- प्रथममध्ययनं शस्त्रपरिज्ञा, बन्धनमाख्यातमितियावद् // 26 // एवं तावत्साधूनां सचित्तमिश्राप्कायपरित्यागेनाचित्तपयसा परिभोगः प्रतिपादितः, ये | तृतीयोद्देशकः पुनः शाक्यादयोऽप्कायोपभोगप्रवृत्तास्ते नियमत एवाप्कायं विहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषाम्, किमन्यदित्यत आह अदुवा अदिन्नादाणं // सूत्रम् 27 // अथवे ति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः, अशस्त्रोपहताप्कायोपभोगकारिणां न केवलं प्राणातिपातः, अपि त्वदत्तादानमपि तत्तेषाम्, यतो यैरप्कायजन्तुभिर्यानि शरीराणि निर्वतितानि तैरदत्तानि ते तान्युपभुञ्जते, यथा कश्चित् पुमान् / सचित्तशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं हि तस्य तत्, परपरिगृहीतत्वात्, परकीयगवाद्यादानवत्, एवं तानि शरीराण्यब्जीवपरिगृहीतानि गृह्णतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तत्पय इति, ततश्च नादत्तादानम्, स्वामिनाऽनुज्ञातत्वात्, परानुज्ञातपश्वादिघातवत्, नन्वेतदपि साध्यावस्थमेवोपन्यस्तम्, यतः पशुरपि शरीरप्रदानविमुख एव भिन्नार्यमर्यादैच्चैरारटन्विशस्यते, ततश्च कथमिव नादत्तादानं स्यात्?, न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्तायाम्, नन्वेवमशेषलोकप्रसिद्धगोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः // 83 // पापसम्बन्धः, तद्धि देयं यदुःखितं स्वयं न भवति दासीबलीवादिवत्, न चान्येषां दुःखोत्पत्ते: कारणं हलखड्गादिवत्, एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तं च यत् स्वयमदुःखितं स्यान्न