________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 82 // श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 26 अनगार स्वरूपमा नैतदेवम्, यतोवयं त्रिविधमप्कायमाचक्ष्महे-सचित्तं मिश्रमचित्तंच, तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिःसाधूनां नेतराभ्याम्, कथं पुनरसौ भवत्यचित्तः? किं स्वभावादेवाहोश्विच्छस्त्रसम्बन्धात्?, उभयथाऽपीति, तत्र यः स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपिकेवलमनःपर्यायावधिश्रुतज्ञानिनोन परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो न श्रूयते- भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाह्रदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्ण:स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि- सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरति जलम्, न पुनर्निरिन्धनमेवेति, अतो यद्बाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत आह सत्थं चेत्थ अणुवीइ पासा, पुढो सत्थं पवेइयं / / सूत्रम् 26 // शस्यन्ते- हिंस्यन्तेऽनेन प्राणिन इति शस्त्रम्, तच्चोत्सेचनगालनउपकरणधावनादिस्वकायादिच वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणा:शस्त्रम्, तथाहि-अग्निपुद्गलानुगतत्वादीषत्पिङ्गलं जलं भवत्युष्णंगन्धतोऽपि धूमगन्धि रसतो विरसंस्पर्शत उष्णं तच्चोद्वृत्तत्रिदण्डम्, एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनसम्बन्धात् स्तोकमध्यबहुभेदात्, स्तोकं स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिका भावना कार्या, एवमेतत् त्रिविधं शस्त्रम्, चशब्दोऽवधारणार्थः, अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्यं नान्यथेति, एत्थ त्ति, एतस्मिन् अप्काये प्रस्तुते अनुविचिन्त्य विचार्येदमस्य शस्त्रमित्येवं ग्राह्यम्, पश्ये त्यनेन शिष्यस्य चोदनेति / तदेवं नानाविधं शस्त्रमप्कायस्यास्तीति प्रतिपादितम्, एतदेव दर्शयति- पुढो सत्थं // 8