SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 81 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 25 अनगारस्वरूपम् समनुजानीते, तच्चोदकसमारम्भणं तस्याहिताय भवति, तथा तदेवाबोधिलाभाय भवति.स एतत्सम्बुध्यमान आदानीयं-सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहैकेषां साधूनां यज्ज्ञातं भवति तदर्शयति- एषः अप्कायसमारम्भो ग्रन्थ एष खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैरुदककर्मसमारम्भेणोदकशस्त्रंसमारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतत्प्राग्वत् व्याख्येयम्, पुनरप्याहसे बेमी त्यादि, सेशब्द आत्मनिर्देशे, सोऽहमेवमुपलब्धानेकाकायतत्त्ववृत्तान्तो ब्रवीमि-सन्ति विद्यन्ते प्राणिन उदकनिश्रिताः-पूतरकमत्स्यादयो यानुदकारम्भप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धः-प्रागुक्तमुदकशस्त्रं समारभमाणोऽन्यानप्यनेकरूपान् जन्तून् विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह-सन्ति पाणा, इत्यादि पूर्ववत्, कियन्तः पुनस्त इति दर्शयति-जीवा अणेगा पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थम्, ततश्चेदमुक्तं भवतिएकैकस्मिन् जीवभेदे उदकाश्रिता अनेके असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तनिश्रितप्रभूतजीवसत्त्वव्यापत्तिकारिणो द्रष्टव्याः॥२४॥शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति इहं च खलु भो! अणगाराणं उदयजीवा वियाहिया // सूत्रम् 25 // खलुशब्दोऽवधारणे इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटके अनगाराणां साधूनां उदकजीवा उदकरूपा जीवाश्चशब्दात्तदाश्रिताश्च पूतरकछेदनकलोद्दणकभ्रमरकमत्स्यादयो जीवा व्याख्याताः, अवधारणफलंच नान्येषामुदकरूपा जीवाः प्रतिपादिताः॥ 25 // यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपातभाजः साधव इति, अत्रोच्यते, // 81 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy