________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 80 // श्रुतस्कन्ध:१ प्रथममध्ययन शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 24 अनगारस्वरूपम् अणेगरूवे पाणे विहिंसइ / तत्थ खलु भगवता परिण्णा पवेदिता। इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेडं से सयमेव उदयसत्थं समारभति अण्णेहिं वा उदयसत्थं समारंभावेति अण्णे उदयसत्थं समारंभंते समणुजाणति / तं से अहियाए तं से अबोहीए। से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अणगाराणं अंतिए इहमेगेसिंणायं भवति- एस खलुगंथे एस खलु मोहे एस खलु मारे एस खलुणरए, इच्चत् गहिए लोए जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारम्भेणं उदयसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसड़।से बेमि संति पाणा उदयनिस्सिया जीवा अणेगे। सूत्रम् 24 // लज्जमानाः स्वकीयं प्रव्रज्याभासं कुर्वाणाः यदिवा सावद्यानुष्ठानेन लज्जमानाः-लज्जां कुर्वाणाः पृथग् विभिन्नाः शाक्योलूककणभुक्कपिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुब्व्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावधानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं? येनैवं प्रदर्श्यन्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो यदिदं यदेतत्, काक्वा दर्शयति-विरूपरूपैः उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्नैरुदककर्म समारभन्ते, उदककर्मसमारम्भेण चोदके शस्त्रमुदकमेव वा शस्त्रं समारभन्ते, तच्च समारभमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीन्विविधं हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव जीवितव्यस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं यत् करोति तद्दर्शयति-स स्वयमेवोदकशस्त्रं समारभतेऽन्यैश्चोदकशस्त्रं समारम्भयति अन्यांश्चोदकशस्त्रं समारभमाणान् शाक्यकणभुक् (प्र०)। // 80 //