________________ श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 24 अनगारस्वरूपम् श्रीआचाराङ्गभियोगः, हस्त्यादीनामपिजीवानामुपकरणत्वात्, स्यादारेका- नन्वेतदेवाभ्याख्यानं यदजीवानांजीवत्वापादनम्, नैतदस्ति, नियुक्ति- प्रसाधितमपां प्राक् सचेतनत्वम्, यथा ह्यस्य शरीरस्याहंप्रत्ययादिभिर्हेतुभिरधिष्ठाताऽऽत्मा व्यतिरिक्तः प्राक् प्रसाधित श्रीशीला० वृत्तियुतम् एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यानं न्याय्यम्, अथापि स्याद्, श्रुतस्कन्ध: 1 आत्मनोऽपि शरीराधिष्ठातुरभ्याख्यानं कर्त्तव्यम्, न च तत्क्रियमाणं घटामियर्तीति दर्शयति-'नेव अत्ताणं अब्भाइक्खेज्जा' // 79 // नैव आत्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धं ज्ञानाभिन्नगुणं प्रत्यक्षं प्रत्याचक्षीत अपह्ववीत, ननु चैतदेव कथमवसीयतेशरीराधिष्ठाताऽऽत्माऽस्तीति, उच्यते, विस्मरणशीलो देवानां प्रिय उक्तमपि भाणयति, तथाहि-आहृतमिदंशरीरं केनचिदभिसन्धिमता, कफरुधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत्, तथोत्सृष्टमपि केनचिदभिसन्धिमतैव, आहृतत्वाद्, अन्नमलवदिति, तथा न ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्दत्वात्, त्वदीयवचनपरिस्पन्दवत्, तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वात्, दात्रादिवत्, एवं कुतळमार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्यः, अत एवंविधोपपत्तिसमधिगतमात्मानं शुभाशुभफलभाजं न प्रत्याचक्षीत, एवं च सति यो ह्यज्ञः कुतळतिमिरोपहतज्ञानचक्षुरप्कायलोकमभ्याख्याति प्रत्याचष्टेस सर्वप्रमाणसिद्धमात्मानमभ्याख्याति, यश्चात्मानमभ्याख्यातिनास्म्यहम्, ससामर्थ्यादप्कायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गेऽभ्याख्याते सत्यव्यक्तचेतनालिङ्गोप्कायलोकस्तेन सुतरामभ्याख्यातः // 23 // एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नाप्कायविषयमारम्भं कुर्वन्तीति, शाक्यादयस्त्वन्यथोपस्थिता इति दर्शयितुमाह लज्जमाणा पुढो पास-अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे // 79 //