SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 78 // रूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः प्रहतः, तं प्रति प्रह्वाः- वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं श्रुतस्कन्धः 1 मार्ग इति प्रदर्श्य तजनितमार्गविसम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते // 21 // उपदेशान्तरमाह प्रथममध्ययनं शस्त्रपरिज्ञा, लोगं च आणाए अभिसमेच्चा अकुओभयं / / सूत्रम् 22 / / तृतीयोद्देशकः लोकं चेत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात्, तथापि भगवदाज्ञेयमिति श्रद्धा सूत्रम् 22-23 अनगारतव्यमित्याह स्वरूपम् # अनाधिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् आज्ञया मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा- ज्ञात्वा, यथाऽप्कायादयो जीवाः, इत्येवमवगम्य न विद्यते कुतश्चिद्धतोः- केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभयः- संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा अकुतोभयः अप्कायलोकः, यतोऽसौ न / कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाज्ञयाऽभिसमेत्यानुपालयेद्रक्षेदित्यर्थः॥ 22 // अप्कायलोकमाज्ञयाऽभिसमेत्य यत्कर्त्तव्यं तदाह से बेमि णेव सयं लोगं अब्भाइक्खिज्जा व अत्ताणं अब्भाइक्खिज्जा, जे लोयं अब्भाइक्खड़ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइक्खड़ // सूत्रम् 23 // सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात्त्वां वा ब्रवीमि, न स्वयं आत्मना लोकोऽप्कायलोकोऽभ्याख्यातव्यः, अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रम्, घृततैलादिवत्, एषोऽसद // 78 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy