SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 84 // श्रुतस्कन्ध:१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 28-30 अनगारस्वरूपम् च परदुःखे निमित्तभूतमपि। केवलमुपग्रहकर धर्मकृते तद्भवेद्देयम् ॥१॥इति, तस्मादवस्थितमेतत्तेषां तददत्तादानमपीति // 27 // साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्षुराह कप्पड़ णे कप्पड़ णे पाउं, अदुवा विभूसाए / / सूत्रम् 28 // अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः- यथा नैतत् स्वमनीषिकातःसमारम्भयामो वयम्, किं त्वागमे / निर्जीवत्वेनानिषिद्धत्वात् कल्पते युज्यते नः अस्माकं पातु मभ्यवहर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि-आजीविकभस्मस्नाय्यादयो वदन्ति-पातुमस्माकं कल्पतेन स्नातुं वारिणा, शाक्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्व कल्पत इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति-अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूषा-करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति // 28 // एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन्विमोह्य किं कुर्वन्तीत्याह पुढो सत्थेहिं विउद्दन्ति // सूत्रम् 29 / / पृथविभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रैस्तेऽनगारायमाणाः, विउदृन्ति त्ति, अप्कायजीवान् जीवनाट्यावर्त्तयन्तिव्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुट्टन्ति-छिन्दन्तीत्यर्थः, कुट्टेर्द्धातोः छेदनार्थत्वात्। // 29 / / अधुनैषामागमानुसारिणामागमासारत्वप्रतिपादनायाह____एत्थऽवि तेसिं नो निकरणाए। सूत्रम् 30 / / एतस्मिन्नपि प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति कप्पइ णे कप्पड़ णे पाउं, अदुवा विभूसाए त्ति एवंरूपस्तेषामयमागमो // 84 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy