________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 76 // अनगार चारित्रात्मकं मोक्षमार्ग प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा निकायप्रतिपन्नो निर्गतः काय औदारिकादिर्यस्माद्यस्मिन्वा / श्रुतस्कन्धः१ सति स निकायो-मोक्षस्तं प्रतिपन्नो निकायप्रतिपन्नः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात्, स्वशक्त्याऽनुष्ठान प्रथममध्ययनं शस्त्रपरिज्ञा, चामायाविनो भवतीति दर्शयति-अमायं कुव्वमाणे त्ति माया-सर्वत्र स्ववीर्यनिगूहनम्, न माया अमाया तां कुर्वाणः, तृतीयोद्देशकः अनिगृहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तज्जातीयोपादानादशेषकषायापगमोऽपि सूत्रम् 20 द्रष्टव्य इति, उक्तं च सोही य उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठइत्ति (उत्तरा०) // 19 // तदेवमसावुद्धृतसकलमायावल्लीवितानः स्वरूपम् किं कुर्यादित्याह जाए सद्धाए निक्खंतो तमेव अणुपालिजा, वियहिता विसोत्तियं // सूत्रम् 20 / / ___ यया श्रद्धया प्रवर्द्धमानसंयमस्थानकण्डकरूपया निष्क्रान्तः प्रव्रज्यां गृहीतवान् तामेव श्रद्धामश्रान्तो यावजीवं अनुपालयेद् / रक्षेदित्यर्थः, प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तर्मीहूर्तिकः, नातः परं / संक्लेशविशुद्ध्यद्धे भवतः, उक्तं चः नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति संक्लेष्टम् / नापि विशोद्धं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः // 1 // उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् / आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः॥२॥ अवस्थितकालश्च द्वयोर्वृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्द्धमवश्यं पातात्, अयं च वृद्धिहान्यवस्थितरूपः परिणाम शोधिश्चर्जुभूतस्य धर्मः शुद्धस्य तिष्ठति। 7 पुवसंजोयं (प्र०)। 888888888888888000 // 76 //