SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 75 // | श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, तृतीयोद्देशकः सूत्रम् 19 अनगारस्वरूपम् प्रकारेणाप्कायोद्देशके नियुक्तिः निश्चयेनार्थघटना कीर्त्तिता प्रदर्शिता भवतीति // 115 // साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से बेमि से जहावि अणगारे उज्जुकडे नियागपडिवण्णे अमायं कुव्वमाणे वियाहिए / / सूत्रम् 19 // से बेमी त्यादि, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके परिसमाप्तिसूत्रे पृथिवीकायसमारम्भव्यावृत्तो मुनि रित्युक्तम्, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणायं सम्बन्धः- सुधर्मस्वामी इदमाह- श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः / सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग् भवति तदहं ब्रवीमि, अपिः समुच्चये, स यथा वाऽनगारो न भवति तथा च ब्रवीमि अणगारा मो त्ति एगे पवयमाणे त्यादिनेति, न विद्यते अगारं- गृहमस्येत्यनगारः, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टे- गृहपरित्यागः प्रधानं मुनित्वकारणम्, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयति-उज्जुकडे त्ति, ऋजुरकुटिलः संयमो दुष्प्रणिहितमनोवाक्कायनिरोधः सर्वसत्त्वसंरक्षणप्रवृत्तत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत्, यदिवा मोक्षस्थानगमनर्जुश्रेणिप्रतिपत्तिः सर्वसंवरसंयमात्, कारणे कार्योपचारं कृत्वा संयम एव सप्तदशप्रकार ऋजुस्तं करोतीति ऋजुकृत्, ऋजुकारीत्यर्थः / अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवंविधश्चेदृग् भवतीति दर्शयति- नियागपडिवन्ने त्ति, यजनं याग: नियतो निश्चितो वा यागो नियागोमोक्षमार्गः, सङ्गतार्थत्वाद्धातोः सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतमिति, तं नियागं-सम्यग्दर्शनज्ञान (r) निकायं पडिवन्ने (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy