________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 74 // श्रुतस्कन्धः१ प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः नियुक्तिः 113-115 अप्कायद्वाराणि दयन्ति, किमर्थमित्याह- सातं सुखं तदात्मनः अन्वेषयन्तः, प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदध्मातचेतसः सन्तः सद्विवेकरहितास्तथा विवेकिजनसंसर्गविकलाः परस्य अबादेर्जन्तुगणस्य दुःखं असातलक्षणं तद् उदीरयन्ति असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तंच- एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम्। एतद्द्यं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः? // 1 // // 112 // इदानीं शस्त्रद्वारमुच्यते नि०- उस्सिचणगालणधोवणे य उवगरणकोसभंडे य / बायरआउक्काए एवं तु समासओ सत्थं // 113 // * शस्त्रं द्रव्यभावभेदात् द्विधा- द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रमिदम्, ऊर्द्धं सेचनमुत्सेचनं- कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, गालनं घनमसृणवस्त्रार्द्धान्तेन धावनं वस्त्राद्युपकरणचर्मकोशकटाहादिभण्डकविषयम्, एवमादिकं बादराप्काये एतत् पूर्वोक्तं समासतः सामान्येन शस्त्रम्, तुशब्दो विभागापेक्षया विशेषणार्थः॥ विभागतस्त्विदं नि०- किंची सकाय सत्थं किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्थं // 114 // किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किश्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि, किञ्चिच्चोभयं उदकमिश्रा मृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति॥११४॥ शेषद्वाराणि पृथिवीकायवन्नेतव्यानि इति दर्शयितुमाह नि०- सेसाई दाराई ताई जाई हवंति पुढवीए। एवं आउद्देसे निजुत्ती कित्तिया होइ॥११५॥ शेषाणी त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, एवं उक्त