SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराड़ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 70 // कालयोरप्यायोजनीयमिति, ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसञ्जिहीर्षुराह- यस्य श्रुतस्कन्धः 1 विदितपृथिवीजीववेदनास्वरूपस्य, एते पृथिवीविषयाः कर्मसमारम्भाः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता प्रथममध्ययन शस्त्रपरिज्ञा, भवन्ति ज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिर्द्विविधयाऽपि परिज्ञया परिज्ञातं तृतीयोद्देशकः कर्म- सावद्यानुष्ठानमष्टप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापरः शाक्यादिः, ब्रवीमि पूर्ववदिति शस्त्रपरिज्ञायां द्वितीय नियुक्तिः 106-108 उद्देशकः समाप्तः॥ अप्काय द्वाराणि ॥प्रथमाऽध्ययने तृतीयोद्देशकः॥ गतः पृथिव्युद्देशकः, साम्प्रतमप्कायोद्देशकः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पृथिवीकायजीवाः प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, तत्र नामनिष्पन्ने निक्षेपेऽप्कायोद्देशकः, तत्र पृथिवीकायजीवस्वरूपसमधिगतये यानि नव निक्षेपादीनि द्वाराण्युक्तानि, अप्कायेऽपितान्येव समानतयाऽतिदेष्टुकामः कानिचिद्विशेषा-8 भिधित्सयोद्धर्तुकामश्च नियुक्तिकारो गाथामाह नि०- आउस्सवि दाराई ताई जाई हवंति पुढवीए / नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥१०६ / / अप्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, नानात्वं भेदरूपं विधानपरिमाणोपभोगशस्त्रविषयं द्रष्टव्यम्, चशब्दाल्लक्षणविषयंच, तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति // 106 // तत्र विधानं // 70 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy