________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 69 // श्रुतस्कन्धः१ प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः सूत्रम् 18 पृथिवीहिंसकाः पयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदनांस्फुटामनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति // 17 // पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह - एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति, तं परिण्णाय मेहावी नेवसयं पुढविसत्थं समारंभेजाणेवण्णेहिं पुढविसत्थं समारंभावेजा णेवण्णे पुढविसत्थं समारंभंते समणुजाणेजा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिण्णातकम्मे त्तिबेमि / / सूत्रम् 18 // इति द्वितीय उद्देशकः॥ अत्र पृथिवीकाये शस्त्रं द्रव्यभावभिन्नम्, तत्र द्रव्यशस्त्रं स्वकायपरकायोभयरूपम्, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः, एतद्विविधमपि शस्त्रं समारभमाणस्येति एते खननकृष्याद्यात्मकाः समारम्भाः बन्धहेतुत्वेन अपरिज्ञाता ऽविदिता भवन्ति एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह- एत्थे त्यादि, अत्र पृथिवीकाये द्विविधमपि शस्त्रं असमारभमाणस्य अव्यापारयत इति, एते प्रागुक्ताः कर्मसमारम्भाः परिज्ञाता विदिता भवन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवतीति, तामेव विरतिं स्वनामग्राहमाह- त मित्यादि, तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भे वाऽबन्धमिति मेधावी कुशलः एतत् कुर्यादिति दर्शयति-नैव पृथिवीशस्त्रं द्रव्यभावभिन्नं समारभेत, नापि तद्विषयोऽन्यः समारम्भः कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् इति, एवं मनोवाक्कायकर्मभिरतीतानागत७चेतनेति पाठः। प्रतिपादयन् इति पाठः। तीति इति पाठः। // 69 //