SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग विरूपरूपैः शस्त्रैः पृथ्वीकर्म समारभमाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्या वा श्रुतस्कन्धः१ नियुक्तिशस्त्रं हलकुद्दालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् प्राणिनो द्वीन्द्रियादीन्विविधं हिनस्तीति / / प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् स्यादारेका, ये हि न पश्यन्ति न शृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम्?, अमुष्यार्थस्य द्वितीयोद्देशकः न्धः 1 प्रसिद्धये दृष्टान्तमाह- से बेमी त्यादि, सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि, अथवा से इति तच्छब्दार्थे वर्त्तते, सूत्रम् 17 // 68 // पृथिवीहिंसकाः यत्त्वया पृष्टस्तदहं ब्रवीमि, अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिज्जात्यन्धो बधिरो मूकः कुष्ठी पङ्गः अनभिनिवृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धादिगुणोपेतं कश्चित्कुन्ताग्रेण अब्भे इति आभिन्द्यात् तथाऽपरः कश्चिदन्धमाच्छिन्द्यात्, स च भिद्यमानाद्यवस्थायां न पश्यति न शृणोति मूकत्वानोच्चै रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुं?, एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धबधिरमूकपझ्वादिगुणोपेतपुरुषवदिति, यथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां अप्पेगे पायमब्भे इति यथा नाम कश्चित्पादमाभिन्द्यादाच्छिन्द्याद्वेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जङ्घाजानूरुकटीनाभ्युदरपार्श्वपृष्ठउरोहृदयस्तनस्कन्धबाहुहस्ताङ्गलिनखग्रीवाहनुकौष्ठदन्तजिह्वातालुगलगण्डकर्णनासिकाक्षिभूललाटशिरःप्रभृतिष्ववयवेषु / भिद्यमानेषु छिद्यमानेषु वा वेदनोत्पत्तिर्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजां स्त्यानाद्युदयादव्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् / अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- अप्पेगे संपमारए अप्पेगे उद्दवए यथा नाम कश्चित् सम् एकीभावेन प्रकर्षेण प्राणानां मारणं- अव्यक्तत्वापादनं कस्यचित् कुर्यात्, मूर्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपद्रा (r) कायं (प्र०)। // 68 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy