SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 67 // भवंति // सूत्रम् 17 // श्रुतस्कन्धः 1 प्रथममध्ययनं तं से अहियाए तं से अबोहीए तत् पृथिवीकायसमारम्भणं से तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रं समारभमाणस्या शस्त्रपरिज्ञा, गामिनि कालेऽहिताय भवति, तदेव चाबोधिलाभायेति, न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनाऽऽयत्यां। द्वितीयोद्देशकः सूत्रम् 17 योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः सकाशात्तच्छिष्यानगारेभ्यो वा विज्ञाय पृथ्वीसमारम्भं पापात्मकं भावयति स पृथिवीहिंसकाः एवं मन्यत इत्याह-सेत मित्यादि, सःज्ञातपृथिवीजीवत्वेन विदितपरमार्थः तं पृथ्वीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः आदानीयं ग्राह्य सम्यग्दर्शनादिसम्यगुत्थाय-अभ्युपगभ्य, केन प्रत्ययेनेति दर्शयति- श्रुत्वा अवगम्य साक्षाद्भगवतोऽनगाराणां वा समीपे, ततः इह मनुष्यजन्मनि एकेषां प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति, यत् ज्ञातं भवति तद्दर्शयितुमाह- एसे त्यादि, एष पृथ्वीशस्त्रसमारम्भः खलुरवधारणे कारणे कार्योपचारं कृत्वा नड्डलोदकं पादरोग इति न्यायेनैष एव ग्रन्थ:-अष्टप्रकारकर्मबन्धः, तथैष एव पृथ्वीसमारम्भो मोहहेतुत्वान्मोहः- कर्मबन्धविशेषो दर्शनचारित्रभेदोऽष्टाविंशतिविधः, तथैष एव मरणहेतुत्वान्मारः-आयुष्ककर्मक्षयलक्षणः, तथैष एव नरकहेतुत्वान्नरकः- सीमन्तकादिर्भूभागः, अनेन चासातावेदनीयमुपात्तं भवति, कथं पुनरेकप्राणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोतीति, उच्यते, मार्यमाणजन्तुज्ञानावरोधित्वात् ज्ञानावरणीयं बध्नात्येवमन्यत्राप्यायोजनीयमिति, अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह- इच्चत्थमित्यादि, इत्येवमर्थं , आहारभूषणोपकरणार्थं तथा परिवन्दनमाननपूजनार्थं दुःखप्रतिघातहेतुं च गृद्धो मूर्छितो लोकः प्राणिगणः, एवंविधेऽप्यतिदुरितनिचयविपाकफले पृथ्वीकायसमारम्भे अज्ञानवशान्मूर्छितस्त्वेतद्विधत्त इति दर्शयति- यद् यस्माद् इमं पृथ्वीकार्य // 67
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy