SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 71 // श्रुतस्कन्धः 1 प्रथममध्ययनं शस्त्रपरिज्ञा, तृतीयोद्देशकः नियुक्तिः 106-108 अप्कायद्वाराणि प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाह नि०- दुविहा उ आउजीवा सुहुमा तह बायरा य लोगंमि / सुहुमा य सव्वलोए पंचेव य बायरविहाणा // 10 // स्पष्टा // 107 // तत्र पञ्च बादरविधानानि दर्शयितुमाह नि०- सुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव। बायर आउविहाणा पंचविहा वणिया एए॥१०८॥ दारं // शुद्धोदकं तडागसमुद्रनदीह्रदावटादिगतमवश्यायादिरहितमिति, अवश्यायो रजन्यां यः स्नेहः पतति, हिमं तु शिशिरसमये। शीतपुद्गलसम्पर्काजलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्करमस्तकस्थितो जलबिन्दुर्भूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिताः / ननु च प्रज्ञापनायां बादराप्कायभेदा वहवः परिपठिताः, तद्यथा-करकशीतोष्णक्षारक्षत्रकटुम्ललवणवरुणकालोदपुष्करक्षीरघृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्तःपाती, शेषास्तुस्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमति वर्तन्ते, यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः?, उच्यते, स्त्रीबालमन्दबुद्ध्यादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थं पाठः?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादार्षम्, तत्र युक्तः सकलभेदोपन्यासः स्त्र्याधनुग्रहाय, निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः। त एते बादराप्कायाः समासतो द्वेधा:-पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्तका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्राग्रशो भिद्यन्ते, ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यम्, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनश्च शीतोष्णोभयभेदात्रिविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति ॥१०८॥प्ररूपणानन्तरं परिमाणद्वारमाह // 71 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy