SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग संयमः, तदुक्तं लज्जा दया संजम बंभचेर मित्यादि, लज्जमानाः-संयमानुष्ठानपराः, यदिवा- पृथिवीकायसमारम्भरूपाद श्रुतस्कन्धः१ नियुक्तिसंयमानुष्ठानाल्लज्जमानाः पृथगि ति प्रत्यक्षज्ञानिन: परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठान प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् प्रवृत्तिविषयः प्रदर्शितो भवतीति / कुतीर्थिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह-अणगारा इत्यादि, न द्वितीयोद्देशकः श्रुतस्कन्धः१ विद्यतेऽगारं- गृहमेषामित्यनगारा-यतयः स्मो वयमित्येवं प्रकर्षेण वदन्तः प्रवदन्त इति, एके शाक्यादयो ग्राह्याः, ते च सूत्रम् 16 वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा इति एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति, यथा कश्चिदत्यन्तशुचिर्वोद्र पृथिवीहिंसकाः चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय पुनः कर्मकरवाक्याच्चर्मास्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थं / सङ्ग्रहं कारितवान्, तथा च तेन शुच्यभिमानमुद्वहताऽपि किं तस्य परित्यक्तं?, एवमेतेऽपि शाक्यादयोऽनगारवादमुद्वहन्ति, नचानगारगुणेषु मनागपि प्रवर्त्तन्ते, न च गृहस्थचर्यां मनागप्यतिलङ्घयन्तीति दर्शयति- यद्यस्माद् इम मिति सर्वजनप्रत्यक्षं पृथिवीकायं विरूपरूपैः नानाप्रकारैः शस्त्रैः हलकुद्दालखनित्रादिभिः पृथिव्याश्रयं कर्म क्रियां समारभमाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं समारंभमाणो व्यापारयन् पृथिवीकायं नानाविधैःशस्त्रैर्व्यापादयन् अनेकरूपान्। तदाश्रितानुदकवनस्पत्यादी विविधं हिनस्ति, नानाविधैरुपायैर्व्यापादयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनोवाक्कायलक्षणां प्रवृत्तिं दर्शयितुमाहतत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडियायहेर्ड // 65 // * ससयमेव पुढविसत्थं समारंभइ अण्णेहिं वा पुढविसत्थं समारंभावेइ अण्णे वा पढविसत्थं समारंभंते समणुजाणइ॥सूत्रम्१६॥ 0 लज्जा दया संयमो ब्रह्मचर्यम् / ॐ येषां ते (प्र०)। 0 सम्प्रति (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy