SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 64 / / श्रुतस्कन्ध:१ प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः सूत्रम 15 पृथिवीहिंसकाः अस्मिन् पृथिवीकायलोके प्रव्यथिते प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया कृषिखननगृहकरणादिषु पृथग् विभिन्नेषु कार्येषूत्पन्नेषु पश्ये ति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बह्वादेशो भवतीति, आतुरा विषयकषायादिभिः अस्मिन् पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकार्य परितापयन्ति परिसमन्तात्तापयन्ति पीडयन्तीत्यर्थः, बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा- लोकशब्दः प्रत्येकमभिसम्बध्यते, कश्चिल्लोको विषयकषायादिभिरातॊऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधस्तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखाप्तयेऽस्मिन्-पृथिवीकायलोके विषयभूते पृथिवीकार्य नानाविधैरुपायैः | परितापयन्ति परि-समन्तात्तापयन्ति पीडयन्तीति सूत्रार्थः॥१४॥ ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत्परिहर्तुकाम आह__ संति पाणापुढो सियालज्जमाणा पुढो पास अणगारा मोत्ति एगेपवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारभेणं पुढविसत्थं समारंभेमाणा अणेगरूवे पाणे विहिंसइ / / सूत्रम् 15 // सन्ति विद्यन्ते प्राणाः सत्त्वाः पृथग् पृथग्भावेन, अङ्गलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सिता वा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति- नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति / एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह- लज्जमाणा पुढो पास त्ति, लज्जा द्विविधा- लौकिकी लोकोत्तरा च, तत्र लौकिकी स्नुषासुभटादेः श्वशुरसङ्गामविषया, लोकोत्तरा सप्तदशप्रकारः (r) कश्चित्तु अपरो दुःसम्बोधः नास्तीदं प्र० / // 64 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy