SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं घणियबंधणबद्धओ पकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टइ एवंस्पर्शनादिष्वप्यायोजनीयम्, श्रुतस्कन्धः१ नियुक्तिएवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च रागद्दोसकसाएहि, इंदिएहि प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् य पञ्चहिं / दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया // 1 // यदि वा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽतः, द्वितीयोद्देशकः श्रुतस्कन्धः१ कः पुनरेवंविध इत्यत्राह-लोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्य-8 सूत्रम् 14 पृथिवीहिंसकाः क्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदाप्रशस्तभावोदयवर्त्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानातः स / सर्वोऽपि परिवूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधा द्रव्यभावभेदात्, तत्र सचित्तद्रव्यपरियूनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरियूनो जीर्णपटादिः, भावपरिघून औदयिकभावोदयात्प्रशस्तज्ञानादिभावविकलः, कथं विकल:?, अनन्तगुणपरिहाण्या, तथाहि- पञ्चचतुस्त्रिव्येकेन्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोत्पन्ना इति, उक्तं च सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण / सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः॥१॥ तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम् / लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्गनोदृग्भिः ॥२॥स च विषयकषायातः प्रशस्तज्ञानबूनः किमवस्थो भवतीति दर्शयति- दुस्संबोध इति, दुःखेन सम्बोध्यते- धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतार्यवदिति, यदिवा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत्, किमित्येवं?, यतः अवियाणएत्ति विशिष्टावबोधरहितः,स चैवंविधः किं विदध्यादित्याह0 गाढबन्धनबद्धाः प्रकरोति, यावदनादिकमनवनताग्रं दीर्घाध्वानं चातुरन्तसंसारकान्तारमनुपर्यटति / (r) रागद्वेषकषायैरिन्द्रियैश्च पञ्चभिः / द्विधा मोहनीयेन वा आर्ताः संसारिणो जीवाः॥१॥ // 63 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy