________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 62 // | श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः सूत्रम् 14 पृथिवीहिंसकाः संयताः यतमानाः सर्वत्र प्रयत्नकारिणः, शोभनं विहितं- सम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति // 105 // गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यते, तच्चेदं सूत्रं अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सिं लोए पव्यहिए तत्थ तत्थ पुढो पास आतुरा अस्सिं परितावेंति // सूत्रम् 14 // अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिर्भवतीत्युक्तम्, यस्त्वपरिज्ञातकर्मा स भावातॊ भवतीति, तथाऽऽदिसूत्रेण सह सम्बन्धः-सुधर्मस्वामी जम्बूनाम्ने इदमाचष्टे- श्रुतं मया किं तच्छ्रुतं? पूर्वोद्देशकार्थं प्रदर्येदमपीति, अट्टे इत्यादि, परम्परसम्बन्धस्तु इह एगेसिं णो सन्ना भवती त्युक्तम्, कथं पुनः संज्ञा न भवतीति, आतत्वात्, तदाह-अट्टे इत्यादि, आतॊ नामादिश्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता-आतंपदार्थस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नो भावात इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकाशित्वाद्धिताहितविचारशून्यमना भावार्त्तः कर्मोपचिनोति, यत उक्तं-सोइंदियवसट्टे णं भंते! जीवे किं बंधइ? किं चिणाइ? किं उवचिणाइ?, गोयमा! अट्ठ कम्मपगडीओ सिढिलबंधणबद्धाओ 0श्रोत्रेन्द्रियवशातॊ भदन्त! जीवः किं बध्नाति? किं चिनोति?, किमुपचिनोति? गौतम! अष्ट कर्मप्रकृतीः शिथिलबन्धनबद्धा