________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ 1161 // श्रुतस्कन्धः१] प्रथममध्ययनं शस्त्रपरिज़ा, द्वितीयोद्देशकः नियुक्तिः 102-105 पृथिवीवधः स्पष्टा / / 101 // तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाह नि०- जो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए। अनियाए अनियाए दिस्से य तहा अदिस्से य / / 102 // यः पृथ्वीकार्य समारभते व्यापादयति सः अन्यानपि अप्कायद्वीन्द्रियादीन् समारभते व्यापादयति उदुम्बरवटफलभक्षणप्रवृत्तस्तत्फलान्तःप्रविष्टत्रसजन्तुभक्षणवदिति, तथा अणियाए य नियाइ त्ति, अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च दृश्यान् दर्दुरादीन् अदृश्यान् पनकादीन् समारभते व्यापादयतीत्यर्थः / / 102 // एतदेव स्पष्टतरमाहू नि०- पुढवी समारभंता हणंति तन्निसिए य बहुजीवे / सुहुमे य बायरे य पञ्जत्ते य अपज्जत्ते // 103 // दारं। स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति॥१०३ // विरतिद्वारमाह नि०- एयं वियाणिऊणं पुढवीए निक्खिवंति जे दंडं / तिविहेण सव्वकालं मणेण वायाए काएणं / / 104 / / एवमि त्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं-पृथिवीसमारम्भाव्युपरमन्ति, ते ईदृक्षा अनगारा भवन्तीत्युत्तरगाथायां वक्ष्यति, त्रिविधेने ति कृतकारितानुमतिभिः सर्वकालं यावज्जीवमपि मनसा वाचा कायेनेति // 104 // अनगारभवने उक्तशेषमाह नि०- गुत्ता गुत्तीहिं सव्वाहिं समिया समिईहिँ संजया / जयमाणगा सुविहिया एरिसया हुँति अणगारा / / 105 // तिसृभिर्मनोवाक्कायगुप्तिभिर्गुप्ताः, तथा पञ्चभिरीर्यासमित्यादिभिस्समिताः, सम्यक्-उत्थानशयनचकमणादिक्रियासुयताः (r) पुढविं समारभंता (मु०)। // 61 //