________________ त्रिभुवन चरित्र // 21 // सर्वानपि संतोषयमास. ततो नृपादेशं संप्राप्य स कुमारः श्रेष्टिनं पृष्ट्रा स्वकलादर्शनाय समुत्थितः. ततोऽसौ गृहीतधनुर्बाणोऽधःस्थिततैलकटाहप्रतिबिंबितां उपरिज्रमहामसव्यचकोपरिगताया राधानिधानायाः काष्टपुत्तलिकाया वामलोचनं तत्कटाहगतप्रतिबिंबं विलोक्य धनुर्मुक्तबाणेन तुर्णमेव विंध्य तिस्म. एवं विधामपूर्वी तत्कलां विलोक्य राजादयः सर्वेऽपि सभाजना रंजिताः, अन्ये राजकुमारा अपि तत्प्रशंसां चक्रुः. इतः सा राजकन्यापि तच्चातुरी विलोक्य स्वमनस्यतीवहृष्टा तत्समीपमागत्य तस्य कंठे वरमालां चिदेप. तावता तेन कुमारेणोक्तं भो कुलकन्यके ! त्वं साहसं मा कुरु ? यतोऽहं वैदेशिको क्षत्रियोऽनेन वणिजा सहालागतोऽस्मि. किंच-कुलं च शीलं च सनाथता च / विद्या च वित्तं च वपुर्वयश्च // एतानि सप्त प्रविलोक्य देया। ततः पर नाग्यवतो हि कन्या // 1 // एवंविधं कुमारवचनं श्रुत्वा राजादिनिः प्रोक्तं-याचारः कुलमाख्याति। देशमाख्याति भाषितं // संत्रमः स्नेहमाख्याति। वपुराख्याति नोजनं // 1 // ततो हे कुमार! तव कलाभाषणादिभिरस्मानितिं यत्व. मुत्तमकुलसंनवः सत्पुरुषोऽसि. तदनु राज्ञा महोत्सवेन तरकन्ययोः पाणिग्रहणं कारितं.