________________ त्रिभुवन // 17 // नया स्थेयं. अहं च तव पितृगृहस्वरूपं ज्ञात्वा पुतमेवात्रागमिष्यामि. संतुष्टहृदयेनारामिकेचरित्रं णाप्युक्तं जो कुमार! सुखीयुता तवेयं पत्नी सुखनैव महे तिष्टतु, तद्विषये त्वया कापि / चिंता नो कार्या. इत्यारामिकोक्तमधरवचांसि निशम्य कमारः प्राह-हंस तरंतां परखीयें। माणस वात करंत // सोनुं कसी परकीयें / नदी नीर होवंत // 1 // ततो राजकुमार्या अग्रे कुमारबुद्धिप्रशंसां विधाय तत्सखी प्रोवाच, हे सखि! नूनं तव पुण्येनैवास्य चतुरस्य कुमारस्य सहायो मिलितोऽस्ति, यतः-सा सा संपद्यते बुद्धिः / सा मतिः सा च नावना // सहायस्तादृशो शेयो। यादृशी भवितव्यता // 1 // ततः कुमार्या प्रोक्तं, हे कुमार! तव विचारो मे मनसि रोचते, अतस्तवोक्तं मम प्रमाणमेव, परं त्वया कार्य विधाय शीघ्रमेवागंतव्यं. ततः कुमारेण तस्मै मालाकाराय कथितं, हे सत्पुरुष! ममासन्नग्रामे किमपि कार्यमस्ति, ततस्तत्र गत्वा स्तोकविलंबेन कार्य विधाय शीघ्रमेवात्रागमिष्यामि. अथ त्वयेदं कन्याच्यं वाहिनी इयत्रयं च तव गृहे सुखेन नव्ययुक्त्या स्थाप्यं, यद्यपस्तुजातं च युज्यते, तत्तत्सर्व त्वयानीय देयं, कार्य कृत्वा चागतस्त्वामहं प्रीणयिष्यामि. बारामिकेणापि कुमारोक्तं सर्व प्रति- // 17 //