________________ चरित्र त्रिभुवन / बारामिकगृहे गत्वा विनयोपेतसुकोमलवचनैस्तं सकलत्रं प्रणामं चकार. तदारामिकेणापि तं कुमारं सदाकारं रूपपात्रं विनयादिगुणान्वितं च दृष्ट्रासनादिकं दत्वा प्रोक्तं, भो कुमार! मद्योग्यं कार्य कथय ? ततः कुमारेणान्नघृतादिकं सर्व तदने मुक्त्वा कथितं, नो पारामिक! प्रथमं त्वमेतैर्वस्तुभिर्मनोहरां स्वादिष्टां च रसवती निष्पादय? यतः-अन्नदानैः पयोदानधर्मस्थानैश्च भूतलं // यशसा सानैरत्र / रुकमाकाशमंगलं // 1 // ततोऽतीवतुष्टेनाराम ण तूर्ण मनोहरा मोदकादिनानाविधरसवतीं निष्पाय राजकुमारिकादीनां सर्वेषां भोजनं कारितं, हयत्रयाणां च चारिपानीयादि समर्पितं. नोजनतः सर्वेषामपि प्रमोदो जातः. नोजनानंतरं कुमारेण चिंतितमथ मया सर्वमपि कार्य सुविमृश्यैव कर्तव्यं, यतः-अनुरूपं न कर्तव्यं / कर्तव्यं सुपरीक्षितं // पश्चानवेन्न संतापो / ब्राह्मण्या नकुलाद्यथा // 1 // इति विचार्य कुमारेण राजपुत्र्यै कथितं, हे पद्मानने! पूर्व त्वमुत्सुकैव तव पित्रोदादागतासि, तेन त्व हिरहेण तव पितृगृहेऽधुना किं जातमस्ति तद ज्ञातुं युज्यते, ततस्त्वया सखीयुक्तयाव कियत्कालं स्थेयं, अयमारामिकश्चोत्तमपुरुषोऽस्ति, अतोऽस्य गृहे त्वया निज गहमेव मन्यमा 16 / /