________________ त्रिभुवन चरित्र ज्यार्थ प्रवहणे समारुह्यापरहीपे यास्यामि, अतस्त्वं मम सार्थे समागच्च? कुमारेणोक्तं नूनमहं त्वया सहागमिष्यामि. श्रेष्टिना कथितं तर्हि वृत्यादिकं याचस्व ? कुमारेणोक्तं परीक्षाकरणानंतरं पश्चादेव द्रव्यादिकं मम देयं. ततः श्रेष्टिनोक्तं नो कुमार! अथ त्वदीयस्वजनादिकं कयत्वा त्वया शीघ्रमेव समुज्तीरे समागंतव्यं. ततः कुमारेण चिंतितं या राजकुमारी मां दृष्टा मम साथै समागतास्ति, तां निराधारां कथं मोचयामि? यतः-विश्वासप्रतिपन्नानां / वंचने का विदग्धता // अंकमारुह्य सुप्तानां / हंतुं किं नाम पौरुषं // 1 // अतः क्वापि जव्यस्थाने तां सखीयुक्तां मुक्त्वा मम गमनं श्रेयस्कर. किंच सा तत्र बुजुक्षिता मां विलोकयंती स्थिता भविष्यति. इति विचिंत्यासौ तत्र गत्वा तत्सर्वमशनखादिमस्वादिमसुखभदिकाफलतांबलादिकं कन्याग्रेऽमुंचत. ततस्तया सहर्षया पूर्व फलसुखभदिकादि भक्षितं, स्वस्था च सा जाता. ततः कुमारेणोक्तं मयान्नादिकं सर्वमानीतमस्ति, परं रसवतीं को निष्पादयिष्यति? इंधनभाजनादिकं च को मेलयिष्यति! तत् श्रुत्वा तयोकं हे पुरुषोत्तम! अत्रैको य बारामिको वसति, तस्येदं सर्व रसवतीकार्य समर्पय? ततोऽसौ कुमार // 15 // BAR