________________ त्रिभुवन // 18 // चरित्र पन्न; कथितं च पुत्रीवदेतामहं पालयिष्यामि. कन्ययापि प्रोक्तं भो आरामिक! अतःपरं त्व-| मेव मम तातोऽसि, ततोऽत्र वसने मम कापि चिंता नास्ति. कुमारेणोक्तं जो कुमारिके! मदागमनावधि त्वयात्रैवास्यारामिकस्य गृहे तातगृहवत्स्थेयं, नान्यत्र कुत्रापि गमनं विधेयं, पार्श्वस्थदेवकुले ईश्वरस्य ध्यानं पूजनं च कार्य, तत्प्रसादाच्च सर्व समीहितं नविष्यति. ततः | कुमारो नगरमध्यादेकां नवां मंजूषामानीय द्रव्याजरणवस्त्रादिकं च तन्मध्ये प्रक्षिप्य तस्यास्तालकं दत्वा कुंचिकां कुमारिकायै समर्पयामास. षएमासप्रमाणामशनादिसामग्री चारामिकाय समर्प्य कथितं, युष्मभिः सर्वैरपि सार्धमेव रसवतीं विधाय सर्वदा भोजनं कर्तव्यं. अद्यतस्तव कुटुंबाय त्वया पृथग्रसवती नो विधेया, यतः सर्वमिदमन्नादि तवैवास्ति. इति कथयित्वा कुमारस्ततो निःसृत्य समुश्तीरे समागतः, श्रेष्टिनो मिलितश्च. श्रेष्ठिनोक्तं नो कुमार! अद्यैव शुनं मुहूर्त विद्यते, अतो नालिकेरादतकुंकुमपुष्पादि त्वं नगरमध्यादानय? ततोऽसौ नगरे गत्वा श्रेष्ट्यर्पितधनेन नालिकेराद्यानीय श्रेष्टिना सह समुद्धं च प्रपूज्य कुंकुम पुपादिभिश्च वर्धाप्य प्रणामं च विधायावोचत् हे समुद्र! तव प्रसादेन देशांतरं गत्वा देमेण