________________ भुवन चरित्र क्षणमपि न परित्यजति सा गृहं, न वंदते देवान् , न पश्यति गुरून्, न विचिंतयति मनसापि धर्म / / पूर्वमपि कदाचिद्गग्नं पिधानादिकमपि स्मृत्वा अमृतमपि कमप्यपराधमुद्भाव्य प्रतिजनमावेदयंति तामेव / च शुद्धस्वभावां वधूमाक्रोशंती निरंतरं द्वेषदहनेनांतः प्रज्वलंती तिष्टति. ततो ज्ञातमेतत्समस्तमपि / - तत्स्वरूपं शेषपरिजनान्वितेन विमल श्रेष्टिना समस्तनगरेण च. ततो यदि कोऽपि किंचित्तां शिक्षयति व a तदा तदुपर्यप्यधिकतरं सा रुष्यति. एवं बहुतरं च द्वेषाग्निना ज्वलंती सा परित्यक्ता सर्वेणापि सम्यग्द-15 जिशनेन, अधिष्टिता च निःशंकं मिथ्यादर्शनेन शेषमोहबलेन च. अन्यदा द्वेषमयतामेव प्राप्तायां तस्या| मागतः कोऽपि महर्द्धिकः श्रेष्टी विमलश्रेष्टीनः पार्श्वे, दृष्टा च तेन तद्गृहोपविष्टेन मोनमाश्रितां वधूं। गाढमाकोशंती जिनश्रीः. ततस्तेनोक्तं महाभागे ! किं मुधैवं खिद्यसे त्वमेवं? यतः-सत्कं कस्य गृहमिदं। यास्यसि सह केन चेयमपि लक्ष्मीः // कतिपयदिनपर्यते / न त्वं न गृहं न चेयं श्रीः // 1 // सखभावा |च प्रतिभातीयं त्वद्वधूः, तत्किं निरर्थकमेव संतापयस्येतां? कल्येऽपि च बध्वायत्तानि गृहाणि भविमें व्यतीत्यादि तेनोक्ते गतासो तदुपर्यपि महाद्वेषं, केवलं न किंचित्तस्य प्रभवति. ततो हले मायाविनि दुष्टे / Hएष त्वया कोऽपि संकेतयित्वा ममोपरि समानीतः सुभाषितजल्पक इत्यादि साक्षेपं वदंती शाकादिच्छे- // 6 //