________________ भुवन // 2 // | कामिनीनां, महाकरिकुंभस्थलदलनकठिनकराकृष्टरिपुरमानवरतकृतकेलिः, प्रबलपरवलाचलनिचयनिर्दः / / लनदंभोलिश्चंद्रमौलिमहानरेंद्रः. तस्य समस्तदिग्वलयविस्तारिकीर्त्तिकामिनीकमनीयप्रियानुसतुः, दंडमात्र- प्रसाधितानेकभृभर्तुः सकलभूपालाभिलषणीयवराज्ञैश्वर्यप्राज्यं विपुलराज्यं परिपालयतः, कदाचित्सुभट- कोटिनिरंतरास्थानसभालंकारिमहारत्नविष्टरोपर्युपविष्टस्य, पूर्वदिग्वधूवदनकमलमुद्योतितं, झटित्येव समु. | दतानेकरविमंडलातिशायिना प्रवरतेजःपुंजेन, समाश्वासितमशेषमप्यास्थानमकस्मात्समंततः शनैः प्रवृ| त्तसुरभिशिशिरपवनपटलेन, उत्कर्णितं समग्रमपि नगरमतर्कितातुच्छोच्छलितकलकंठकिन्नरगणैर्गीयमानमधुरगेयध्वनोभिः क्षणात्समागतमवलोकनीयतां गगनमंडलममरसुंदरीचरणरणन्नुपूररवोन्मिश्रमणिघर्घरीझात्कारैः, व्याप्तमपरिशेषमपि दिक्चक्रमतिरभसपरिपठत्सुरबंदिवृंदकोलाहलेन, बधिरितमाश्वेव , व भबलयमास्फालितातितुमुलसुरदुंदुभिरवेण. ततो राजा सहसैव किंचिदासनादुत्स्थाप्य निःशेषभूपालमं. वडलीमंडितास्थानजनसहित एव सविस्मयभरं सोत्कर्ष सोत्कंठं च किंचिद्भालतलावाङ्मुखविनिवेशितवा मैककरतलः, कमलदलपटलकोमलमसूरकोपरि दक्षिणभुजकरतलावष्टंभो निश्चलीकृत्य दत्तकर्णयुगलोन विस्फारिताचललोचनश्च अहो किमेतदिति यावच्चिरमवलोकयति तावल्ललाटपट्टतटघटितघनश्रीखंड- // 2 // SODELEDDDDED जिन जिन जिन MDO