________________ // श्री जिनाय नमः // - भुवन 1 // // अथश्री भुवनभानुकेवलिचरित्रं प्रारभ्यते // [ कर्ता-श्री इंद्रहंसगणी.] छापी मसिद्ध करनार-विठलजी हीरालाल हंसराज-(जामनगरवाला) Malai MEDGEMEEDOMणिBिE अस्तीह जंबूद्वीपे मेरोः पश्चिमायां दिशि गंधिलावती नामा विजयः, तत्र च निवासः सर्वसंपदा, a निलयो निःशेषविलासानां, गृहं समस्तसह्यवहाराणां. अनास्यदमशेषपापव्यापाराणां, धाम धर्मकर्मणां, B | वलयितं प्रांशुप्राकारेण दुर्गकृतमतिगंभीरपरिखया. समग्राश्चर्यनिकेतनमतिविस्तीर्णमवनिवनिताशिरस्तिलकभृतं विजयपुरं नाम नगरं. तत्र चाराध्यः पार्थिवसहस्राणां, प्रथमः सत्ववतां, अग्रेसरो विक्रमिणां, ISI पात्रं समग्रसंपदां, जलधिर्बुद्धिसरितां, विहितबहुविस्मयो महामंत्रिणां, कमनीयताहितकामविभ्रमः