SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चरित्र 1 श्लोकः-ईशुक्षेत्रं समुद्रश्च / योनिपोषणमेव च // प्रसादो भूभुजां चैव / सद्यो नंति दरिद्रतां // 1 // a इति प्रोत्साहितश्च धनपिपासया, भृतं तेन क्रयाणकानां प्रवहणं, प्रवाहितं समुद्रे, गतस्तन्मध्यदेशे, // 29 // तत्र चोन्नतं घनमंडलं; गर्जति मेघः समुद्रश्च; चमत्कुर्वति सर्वतो विद्युतः; प्रवृत्ताश्च प्रतिकूलपवनाः, ततः समुच्छलदतुच्छलहरीभिर्विदलितं शतधा तद्यानपात्रं, प्राप्तकफलकखंडश्च वैश्रमणो जलचरजंतुज लकल्लोलाभिघातादिजनितदुःखान्यनुभवन्नीरधिनीरकल्लोलमालाप्रेरितः प्राप्तः क्वचिद् दूरदेशे, यत्र नामापि वन ज्ञायते स्वदेशस्य, वार्तापि न श्रूयते सुहृत्स्वजनादिनां, ततस्तत्र दुःखभाराक्रांतस्यैतस्य गंडोपरि स्फोटक जे कल्पा लग्ना पृष्टतो रोगमहापद्, तदनुभावतश्च गृहीतोऽसौ ज्वरेण, बाधितः शिरोबाधया, शल्यितःशूलेन, पी-- विडितोऽन्यरोगैश्च. शयानःशून्यदेवकुलेषु, निषीदस्तरुतलेषु, पतन् प्रपासु, लुठन् मठेषु, क्रंदन् देशकुटीषु, भ्रन मन् प्रतिगृहं, जल्पन दीनानि, याच्यमानः पथ्यौषधादोनि, प्रतिहन्यमानस्तल्लाभांतरायेण दुःखितश्चिरं विच- | a रन् विमुक्तः कथमपि रोगैः. प्रवर्धमानधनपिपासाप्रेरितः करोति वाणिज्यानि, अर्जयति च प्रभूतवारान् कथ मपि किंचिद्धनं, परिलुट्यते क्वचिन्नराधिपः, धूर्त्यते क्वापि धूर्तेः, गृह्यते क्वचिच्चैौरैः, उपद्रूयते क्वापि पाव- केन. इत्येवं नानादेशेषु पर्यटन् करोति क्वचिद्धातुर्वाद, भक्षते तत्राभक्ष्यादि, परिशीलयत्यनाचारं, क्वापि // 29 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy