SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्र 30 // || खनति खानि, निहन्यते तत्र शिलोपलादिना व्यंतरपिशाचादिभिः, भक्ष्यते भुजगैः, दृश्यते वृश्चिकैः / / सहते महावेदनानिकरं. __इत्येवं प्रतिसमयं पतन्महापन्निपातनिर्विण्णो धनस्वजनदेशदाराविमुक्तोऽतिदुःखतः पर्यटन् ग्रामनन गरादिषु, गतः कदाचित् क्वापि विद्यामठे, पठितं च तत्र केनापि धर्मशास्त्रपाठकेन-खजनधनभवन-- न यौवन-वनितातन्वाद्यनित्यमिदमखिलं // ज्ञात्वापत्त्राणसमं / धर्मं शरणं भजत लोकाः // 1 // श्रुतमनेन, न ततश्चिंतितं च अहो! यत्र क्वचिद् दुःखितैर्गम्यते, यदग्रतश्च निजं दुःख निवेद्यते स सर्वोऽप्येवमेव वदति, | यन्न कृतोऽन्यजन्मनि धर्मः; ततोऽकृतधर्माणां च प्राणिनामशरणानां पतंति प्रतिपदं महापदः. तस्मात् केवलापायपरितेऽत्र संसारे धर्म एव शरणं तेषां, नान्यदित्यादि. अत्रांतरे चिंतितं मिथ्यादर्शनगृहिण्या कुदृष्टया, अहो चिराज्जातोऽद्य ममावसरः, यत इदानीं वैराग्यनामकस्य प्रतिपक्षीयमनुष्यस्य किंचित्प्र| वेशोऽत्र संसारिजीवे उपलक्ष्यते, तद्यद्यतत्पृष्टत एवास्मत्प्रतिपंथिनी सम्यग्दर्शनदुहिता कथमप्यागच्छे| त्तदा सर्वमेवालं भवेदिति विचिंत्य सत्वरं प्रेषिता धर्मबुद्धिनामिका निजदुहिता. गतासौ तदंतिकं, तद. मावाच्चोत्पन्नो वैश्रमणस्य धर्मकरणाभिप्रायः, चिंतितं च तेन यदि तावत्सर्वेषामपि विज्ञानामयमेवा DOWDERNMEMOID MORE
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy