SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ / / 28 // || मूर्छानिमीलिताक्षः पतितः सवोऽपि जनः, जातश्र निश्चेष्टः. अत्रांतरे समायाता महातस्करधाटी, दृष्ट्वा / च तं तदवस्थमपहृत्य सर्वमपि धनशंबलादि गतास्तस्कराः. ततः कृपालुना तत्रागतेन केनापि पथिकेन / कुतोऽपि पानीयमानीय पायिताः सर्वेऽपि ते स्वल्पं जलं. स्वस्थोभूतानां च तेषां तेनोपदिष्टो जलाशयः, | तैश्चापि तत्र गत्वा पीतं जलं, क्षालितान्यंगानि, स्वस्थीभृताश्च प्रवृत्ताः पुरतो गंतु. संबलायभावाच्च / | गताः सर्वेऽप्यात्मीयात्मीयस्थानं. वैश्रमणोऽपि प्राप्तो ग्राममेकं, पोडितो बुभुक्षया पतितो निश्चेष्टस्तरुच्छायायां, दृष्टः केनाप्यनुकंपापरेण, दापितं तेन किमप्योदनादि, स्वस्थोभूतश्च पुरतो गच्छन् श्रांतो बाढं न शक्नोति पद्भ्यां गंतुं, सुकुमारतया च स्फुटित्वा चरणतलं समागच्छति ततः शोणितं, ततोऽसौ / | मुहुर्मुहुर्मूछति, लुठति, पतति, परिदेवति, कंदति, शोचति, विलपति च मार्गश्रमात्. विभवकुटुंबवियो| गाश्च बहिरंतश्चोत्पन्नमहादुःखस्तन्नास्ति यद्दीनतापन्नोऽसौ न चेष्टते. ततोऽतिकष्टेन प्रतिग्राममटति भिक्षा, | तल्लाभमपि महानिर्दयोऽतिनिस्त्रिंशः प्रतिहंति लाभांतरायः. इत्येवमतिनिष्करुणाभिः प्रतिपदमापतंती| भिर्महापद्भिरसौ कष्टेन समागतः किमपि वेलाकूलं. धृतः केनापि वणिकपुत्रतया; जातश्च किंचित्सकिचनः, प्रेरितो धनपिपासया, प्रारब्धं वाणिज्यं, अर्जितं प्रभृततरं धनं, ततः समाकर्णितस्तेन क्वाप्ययं // 28 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy