SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं | | तोऽसो महापापेषु, कारितोऽनवरतं जीवघातं, प्रेरितः केवलं मांसभक्षणेषु, ततः पातितो महानरकेषु, | धृतश्च तत्रानंतदुःखान्यनुभवन्नसंख्येयकालं. अन्यदा च ततः समाकृष्यानीतोऽसो कर्मभूपेन शकुंतादिषु. | ततोऽतिरुष्टैमोहादिभिः पुनीतोऽयं तथैवैकेंद्रियादिषु नरकावसानेषु स्थानेषु, तत्र च गतागतेर्निरुद्धोऽनंतान a पुद्गलपरावर्तान् यावत्. अन्यदा च ततः कथमप्यानीतोऽसौ कर्मनृपेण संमूर्छिममनुष्येषु. तत्रापि सत्वर | मागत्य मोहादिभिरष्टसु भवेष्वष्टावेवांतर्मुहूर्तानि धृत्वा शीघ्रमेव ततः पुनरप्येकेंद्रियादिषु संमूर्छिममनु-न न व्यपर्यंतेषु जंतुषु गतागतेधृतोऽनंतपुद्गलपरावर्तान्. ततो नीतोऽन्यदा कथमपि कर्मपरिणामेनायमनार्यन देशोद्भवगर्भजमनुष्येषु. ततश्चकितो मोहः, क्षोभमुपागताः सर्वेऽपि तस्सैनिकाः, अहो! हता वयं, दूर मानीतोऽसौ वैरी! ततो रसगृध्ध्यकार्यप्रवृत्तिनामकाभ्यां योषिद्भ्यामुत्थाय प्रोक्तं, कोऽयं नाम भवतां संक्षोभः! अयं हि वराकोऽत्र स्थितोऽस्माकमपि साध्योऽस्ति, आज्ञा चेदमुं गले बध्ध्वा युष्मदासतां नयावः. तत् श्रुत्वा रंजितेन मोहनृपेणोक्तमहोऽस्मद्दले स्त्रीणामप्येतावानवष्टंभः! हे वत्सिके ! गच्छतं तत्र शीघ्र व युवां ? कुरुतं च कार्य ? सिद्धिर्भवतु भवत्योः कार्येषु, वयमपि ससैन्याः करिष्यामो युष्मत्सहायं. सावष्टं भतया व्यवहरिष्याव आवामिति प्रतिश्रुत्य गते ते. प्रवर्तितोऽसौ रसगृद्धया मद्यमांसाद्यपेयपानाभक्ष्य Do MEEEEEEEEEEMनजिनि ELEME COCODDODDEDDDDDDDED / / // 15 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy