________________ भुवन चरित्रं TO IEM TE TO M // 16 // भक्षणेषु, अकार्यप्रवृत्त्या च प्रेरितो मातृस्वस्राद्यगम्यगमनेषु, ततः पातितोऽचिरादेव महानरकेषु. इत्येवं / पुनरपि नीत्वा मत्स्यैकेंद्रियादिस्थानेषु निरुद्धोऽसावनंतपुद्गलपरावर्तान् यावत्. अन्यदा च कथमपि नी तोऽयं कर्मपरिणामभूपेनार्यदेशोद्भवमातंगेषु. तत्राप्यभक्ष्यभक्षणादिभिर्नरकपातादिक्रमेण रसगृद्धयकार्य। प्रवृत्तिभ्यामेव लोलयैव व्यावृत्त्य स विधृतोऽनंतपुद्गलपरावर्तान्. तत आर्यदेशेष्वपि वेश्यादिकुलोत्पन्नः स ताभ्यामेव प्रभूतवारान् व्यावृत्त्य व्यावृत्त्य विधृतस्तावत्कालं. कदाचिच्च क्षेत्रजातिविशुद्धं मानुषत्वं न प्रापितस्य तस्य पार्श्वे प्रेषितो मोहनृपेण दर्शनावरणकर्मनामा सामंतः. तेन च कृतोऽसो जात्यंधः पाषाa णकल्पो विरूपः. एवं तं सर्वथा शोचनीयं कृत्वा वृथासंपादितमनुष्यभावः स क्षिप्तः पुनरप्येकेंद्रियादिषु, निरुद्धश्च तावंतमेव कालं. कदाचित्पुनरपि कर्मपरिणामेन स समानीतो मनुष्यभवं. तत्रापि दर्शनावरणसामंतस्तं धृत्वा मूकत्वादिना कदर्थितवान्. एवं काणखंजत्वादिभावस्तं बीभत्सरूपं विधाय लीलयवा| नंतवाराननंतपुद्गलपरावर्तान् यावद्विडंबितवान्. कदाचित्तु कष्टात् कर्मपरिणामेन पुनरपि मनुजभाव| मानीतो मोहमहीपतिप्रेषितेनासातवेदनीयदुष्टचरटेन कदाचिदाजन्मत एव कृतो महाकुष्टी, वातकी, महोदरी, ज्वरी, अतिसारो, कासी, श्वासी, भगंदरी, गुल्मरक्ती, पित्ती, अशोविकारी, शिरोरोगी, कपालरोगी, EETaas Maa