________________ रित्र भुवन // 112 नपि कुर्वतां न भवति, भवति चेत्तर्हि पश्यतामपि तथा विघटते यथा तत्सद्भावे जगतोऽपि गौरव्यो। व भृत्वा करोति पश्चात्परगृहेषु दासतां, दैवतः कथमप्यविघटितोऽपि म्रियमाणः सर्वथा परिहृत्यैव श्रियं न जति जन्मांतरे, तत्कस्तस्यां प्रतिबंधः? योऽपि प्रभुत्वाभिमानः सोऽप्यविवेकविलसितमेव, यतश्चक्रव. यपि क्षीणपुण्योदयो जीवन्नपि कोऽपि भिक्षां भ्रमतीति श्रूयते, दृश्यते च तदन्यप्रभुष्वध्यक्षमेवेदं. अथ न जीवन्न भ्रश्यति प्रभुभावात्तर्हि मृतश्चक्राधिपोऽप्युत्कृष्टतः सप्तमनरकपृथ्वीनारको भवति, तत्कथमितरेषां | प्रभुत्वसारताभिमानः! यद्यपि ममाज्ञाविधायिनो बहवः पुत्राः, स्नेहवती सुरूपा च भार्या, निदेशमात्रवर्ती शेषोऽपि परिजन इति मे श्लाघ्यः कुटुंबिभाव इति परिभावयंतः केचिद्यत्प्रेमपरवशीभवंति तदप्यविचारितरमणीयमेव. यतः स्वकार्यनिष्ट एव सर्वः पुत्रकलत्रादिकोऽभीष्टलोकः, स च तद्विसंवादे विसंव. न दत्येव, न चात्यंताभीष्टो रोगजगमरणादिभी रक्षितुं क्षमति. नियमाणैश्च स्तोकदिनांते सर्वमेव पुत्रादिच कमवश्यं परित्यज्यते, इति किं तद्रमणीयत्वेन ? यदप्यहं शृणोमि श्रव्यगीतानि, पश्यामि रमणीयरूपाणि, जिप्रामि सुगंधिगंधान्, आस्वादयामि मनोज्ञरसान्, स्पृशामि कोमलाभीष्टस्पर्शानिति केषांचिद्वि मणीयताभिमानः सोऽप्यज्ञानविजूंभितमेव. यतोऽस्मिन् क्षणे प्राप्ताः परिभुज्यमाना विषया यत्सुख