SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ भुवन // 108 // / प्राप्तश्चानुक्रमेण यौवनभरं रूपसौभाग्यप्रकर्ष च. ततस्तिष्ठति सदैव स कलावद्भिः कुमारैः सह शास्त्रवि- / / || चरित्र - नोदेन, कारयति देवगृहेषु स्नात्राणि, प्रवर्तयति पूजाः, विधापयति रथयात्राः, उत्सर्पयति गीतवादित्रव नृत्यपेक्षणीयादिभिर्जिनशासनं, दापयति दीनादीनां दानानि, शृणोति गुरुणां समीपे सदागम, तत्र च न | तस्य परिचितीभवति समस्तमपि चारित्रधर्मसैन्यं. ततो भीतभीतं भ्रमति दूरेण मोहमहाचरटबलं, ततो व | न स्पृशत्यमुं विषयरागः, न संचरति सन्निधाने द्वेषः, न यति समीपं वैश्वानरः, नासन्नमागच्छति | शैलराजः, न वसति चेतस्यपि पिशुनता, न दृष्टिविषयं भवति लोभः, न बाधते तस्य स्पर्शाभिलाषः | न जानात्यसो वार्तामपि रसलोलतायाः, न शृणोति कथामपि गंधवृद्धः, न क्षिपति चक्षुरपि मनोज्ञरूपेषु, न भाव्यते श्रोत्रमपि मधुरशब्देन, न निकटीभवति स्वप्नेऽपि कृपणता, न परिवसत्यंगेऽप्यविनयः. ततः | / केवलं विनयोपशममार्दवार्जवसंतोषजितेंद्रियत्वौदार्यगांभीर्थस्थैर्यशौर्यादिगुणमयशरीरस्य तस्य प्रसरति दिगंतमपि कोर्तिः, स्निह्यतोऽत्यर्थमेव तद्विनयादिगुणरंजितौ पितरो, नेच्छतः क्षणमपि तद्विप्रयोग. | प्रवर्तते च तस्य प्रतिगृहं गुणकथा. गीयंते सुरसुंदरीभिरपि सोत्कंठाभिस्तद्गीतानि, पव्यतेऽमरबंदिदै- | रपि सुकविकाव्योपनिबद्धानि शरच्चारूणि तच्चरितानि. तदेवं बलिकुमारगुणमयतां गते सर्वस्मिन्नपि 108 // PO INDIEO MOTEET RID ODOOR TEDO
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy