________________ पुरजनोहि हृष्टःसन् पौरुषस्य गुणैः खलु / कुमारस्य समंतेन मौक्तिकाद्युपहारतः // 221 // राजानं पूजयामास राजापि तस्य वै ततः / स्वपुत्रस्य विशेषण सन्मानं च करोति सः // 222 // | ज्योतिर्विदपि राज्ञा स कारागृहात्ततः किलः निष्कास्य पूजितः सम्यक् तज्ज्ञानस्य चमत्कृतेः॥२२३॥ ग्रामादिदानतो विप्रः संतोषं तेन प्रापितः / तत्प्रभावोहि विद्याया कथितः कोविदैः खलु // 224 // मातेवरक्षति पितेव हिते नियुक्त कांतेव चाभिरमयत्यपनीय खेदम् // कीर्ति च दिक्ष वितनोति तनोति लक्ष्मी किकिं न साधयति कल्पलतेव विद्या // 225 // कन्याजीवितदानेन तन्मातृपक्षगामिनः श्वसुरपक्षनिष्ठाश्च व्हटा विप्रजनास्ततः // 226 // एकावल्यादिहारैश्च प्रजयन्तिस्म तं खलु / कुमारं चापि राज्ञो वै सत्कृत्य विधिरूपतः॥२२७॥ सा बालापि कुमारस्य तस्य च निजहस्ततः भालस्थले विधायाथ तिलकं मौक्तिकाक्षतैः // 228 // कृत्वा वर्धापयामास राजा च तदनंतरम् / गुणशालिकुमाराय युवराजस्य वै पदम् // 229 // दत्वा सुखेन राज्यं स करोति न्यायतः खलु / चिन्तयति च मन्त्रीशो जातं मानमियत्खलु // 230 // | कुमारस्य तदा राज्ञो बभूव मम वै पुनः / सूत्रं विनष्ट मेवायं मया पूर्व यतोह्यसौ // 231 //