________________ लज्जाकारि यतोविद्वन नैवकोटीश्वरोपि वा। विप्रजनो यतो धीवन याचमानो न लज्जते // 129 // विप्रस्याजीविका सृष्टा दानादानेन वेधसा / तेन तदगृहणे नैव लज्जते ब्राह्मणोनृपः॥ 130 // | स्वप्नेऽपि याचमानो विप्रजनो भ्रमतिभूतले सततम् / यो यत्करणेरसिकःप्रायःस्वप्नेऽपि तत् कुरुते 131 तत्र च देवि यानेन नैवकिंचित्प्रयोजनम्। अधिकंलभ्यतेनैव भाग्यादितिद्विजोऽत्रवीत् // 132 // विकटाटव्यामटनं शैलारोहणमपानिधेस्तरणम्। क्रियते गुहाप्रवेशस्तदापि न भाग्याधिकं लभ्यम॥१३३॥ - पुनःसा प्राह हे स्वामिन् भवता किं निगद्यते / उद्योगः सर्वतो मुख्यः क एतन्न प्रपद्यते // 134 // उद्योगिनं पुरुषसिंहमुपैतिलक्ष्मीदेवेनदेयमितिकापुरुषा वदंति / दैवंनिहत्यकुरुपौरुषमात्मशक्त्या यत्नेकृतेयदिनसिध्यतिकोऽत्रदोषः // 135 // इतिवाक्यस्तयासौवै प्रेरितोगतवान्खलु / राज्ञः सदसि शीघंहि गत्वा च तत्र भूभुजे // 136 // आशीर्वादं नवानां वै ग्रहाणांसोऽवदत्सुधीः / मार्तण्डश्च शशांकश्च क्षोणिसूनुस्तथैवच // 137 // - इन्दुसूनुगुरूंश्चैव दैत्याचार्यस्तथैव च // शनैश्चरश्चराहुश्च केतुश्चापि सदा खल्लु // 138 // तारासंगैश्चनक्षत्रै रश्विन्यायैस्तथैव च // स्वामियुक्तैश्चकल्याणं नित्यारोग्यं तथैव च // 139 //