________________ Ke अथैवं तां दृढं बध्ध्वा तलारक्षो भूपाज्ञया // गृहीत्वाऽयाद्वधस्थानं शूलिकारोपणाय च // 8 // ज्ञातं तस्याः स्वरूपं तत् तदाक्या जनाननात् // तदाऽपृच्छज्जनांस्तत्र मदीयाऽऽरोप्यते कथम् // 8 // - तेरुक्तं शृणु तत्सर्व तत्परिहितकंचकः // चोरितवस्तुरूपोऽस्ति नृपाग्रे कथितं जनैः // 89 // राज्ञा पृष्टापि सा तस्य वदति दातृनाम न // तेनेयं चौरवच्छलिकाया मारोप्यते जनैः ॥ए०॥ तन्निशम्याकया प्रोक्त मत्रास्ति चौर एव सः॥ तस्मिन् जीवति मिथ्यैव सा तत्रारोप्यते कथम् // 91 // इत्युक्त्वा सा तदैवाका यूतस्थाने गता द्रुतम् // तत्र स्थितं कुमारं तं क्रोधाग्निज्वलिताऽवदत् // 12 // - अरे चौर महादुष्ट ज्वलय तव कंचुकम् // येनैव कामसेनाया प्राणनाशकरं ध्रुवम् // 13 // . समुद्भूतं महद्दुःखं वत्सः प्राह कथं कथम् // तदाकयापि तत्सर्व तस्मै प्रोक्तं स्वरूपकम् // 14 // IR कथितं चाधुना सैषा कामसेना सुता मम // तलारक्षेण नीतास्ति शूलीस्थानमतो व्रज // 95 // निशम्यैतत् कुमारस्तु स्वयमेव ततः स्थलात् // शुलिकायाः प्रति स्थानं धावितोऽतित्वरान्वितः९६ Kखङ्गमपि गृहीतुं स्वं वेश्यालये गतो न सः॥ विलम्बात् कामसेनायाः प्राणहानिर्भवेद्यतः // 97 // तत्र गत्वा कुमारोऽथ तलारक्ष मुवाच सः // नहीयं चौरदण्डार्हा तच्चौरश्वाह मस्मि भोः // 98 //