________________ जिन लजाल जिन चरित्रम् // 10 // | जाताभयप्रद // नित्योत्सवावतारार्थ / नाथ तीर्थ प्रवर्तय // 1 // राजीमती इति विज्ञप्य ते देवाः स्वामिनं च प्रणम्य शोकसागरे पतितान् समुद्रविजयादियादवान् प्रतिबो। धयामासुः, यदयं भगवान् तोर्थ प्रवर्तयित्वा त्रैलोक्याधिपतिर्भविष्यति, ततो हर्षस्थाने भवतां कोऽयं शोकावकाशः? ततःप्रभृति प्रभुर्वार्षिकदानं दातुं लग्नः, एवं वर्ष यावद्दानं दत्वोजयंताद्रो गत्वा तत्र सह साम्रवने दीक्षां जग्राह, कियत्कालानंतरं च केवलज्ञानमाप्तवान्. तदा तत्र सदेवैरिंद्रैः समवसरणं कृतं, + अनेक देवा नृपाः कृष्णादयो यादवाश्च भगवतो धर्मदेशनां श्रोतुमुपाययुः. प्रभुणापि धर्मदेशना प्रारब्धा / यथा-भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं / बली कालश्चौरो नियतमसिता मोहरजनी // गृहीत्वा ध्यानासिं विरतिफलकं शोलकवचं। समाधानं कृत्वा स्थिरतरहशो जागृत जनाः॥१॥ संसारांबनिधौ सत्व कमोर्मिपरिघट्टिताः // संयुज्यंते वियुज्यंते / तत्र कः कस्य बांधवः // 2 // इत्यादि धर्मोपदेशं श्रुत्वा वर- दत्तादयो बहवो राजानो दीक्षां जगहुः. प्रभुणापि तेषां वरदत्तादिमुनीनां गणधरपदवी दत्ता. तदा राजी मत्यपि समुत्थाय प्रभुं प्रणम्य च दीक्षां याचतेस्म.प्रभुणा नेमिनाथेनापि स्वहस्तेन तस्यै दीक्षा विश्राणिता.